________________ 38 काव्यमाला। - वाच्याभिप्रायेण पूर्वरूपावगमः / एकस्य तु विरुद्धधर्मसंसर्गों द्वितीयसब्रह्मचारिनिवृत्त्यर्थः / अत एवानन्वय इति योगोऽप्यत्र संभवति / यथा_ 'युद्धेऽर्जुनोऽर्जुन इव प्रथितप्रतापो भीमोऽपि भीम इव वैरिषु भीमकर्मा / संभवादेकस्य च तदभावात्कथमिहातदाश्रयस्याप्यस्य वचनमित्याशङ्ख्याहवाच्याभिप्रायेणेत्यादि / पूर्वरूपेति / सादृश्याश्रयत्वस्येत्यर्थः / अस्त्येव ह्यत्र शाब्दी सादृश्यप्रतीतिः। मुखं चन्द्र इवेत्यादिवदेवात्रोपमानोपमेयत्वस्य वाच्यतयोपनिबन्धनात् / अत एवाह-वाच्याभिप्रायेणेति / न पुनर्वस्त्वभिप्रायेणेत्यर्थः / वस्तुतो ह्येकस्यैव साध्यसिद्धधर्मरूपत्वासंभवादुपमानोपमेयत्वेऽपि विरोधः स्यात् / इत्थं शाब्दमेव सादृश्यानुगममाश्रित्येहास्य लक्षणम् / ननु योवमेकस्योपमानोपमेयत्वं विरुध्यते तत्किं वस्तुविरुद्धेन निष्फलेन चैतेनेत्याशङ्कयाह -एकस्येत्यादि / एवं चास्य द्वितीयसब्रह्मचारिनिवृत्तिरेवालंकारत्वप्रतिष्ठापकं प्रमाणम् / अन्यथा पुनःस्थालंकारत्वम् / यथा-'तस्याज्ञयैव परिपालयतः प्रजा मे कर्णोपकण्ठपलितंकरिणी जरेयम् / यद्गर्भरूपमिव मामनुशास्ति सोऽयमद्यापि तन्मयि गुरोर्गुरुपक्षपातः॥' अत्र यथैव गर्भरूपं मां गुरुरन्वशात्तथैवाद्याप्यनुशास्तीति सत्यप्येकस्योपमानोपमेयत्वे द्वितीयसब्रह्मचारिनिवृत्तिप्रतिपत्त्यभावाबायमलंकारः। एकस्यैवावस्थाभेदेन च सिद्धसाध्यधर्मसंभवान्नोपमानोपमेयत्वस्य विरुद्धधर्मसंसर्गः / अत एवेति / विरुद्धधर्मसंयोगात् / एकस्यैव सिद्धसाध्यरूपेणोपमानोपमेयत्वेनाविद्यमानोऽन्वयः संबन्धो यत्र स तथोक्तः / अर्जुनादन्यो युद्धे प्रथितप्रतापो नास्तीति द्वितीयसब्रह्मचारिनिवृत्तिरत्र जीवितभूता प्रतीयत एव / अत एव कार्तवीयेहिंस्रसत्त्वयोरुपमानरूपयोरप्रतीतेः शुद्धमेवैतदुदाहरणम् / त्तिअमेतुम्मि जए सुन्दरमहिलासहस्सभरिअम्मि / अणुहरइ णवर तिस्सा, वामाद्धं दाहिणद्धस्स // ' इत्यादौ चानन्वयोदाहरणत्वं न वाच्यम् / अत्रान्यार्धे - 1. 'एकस्यैव' ख-पुस्तके नास्ति. 2. 'एतावन्मात्रे जगति सुन्दरमहिलासहस्रभरिते। अनुहरति केवलं तस्या वामा दक्षिणार्धस्य // ' इति च्छाया. ..