________________ अलंकारसर्वस्वम् / - एकस्यैवोपमानोपमेयत्वेऽनन्वयः॥ मलो व्व चन्दम्मि जत्थ विही // ' अत्रोपमेयस्य षट्पदाच्छादित्वं कल्पितम् / 'आवर्जिता किंचिदिव स्तनाभ्यां वासो वसाना तरुणार्करागम् / संजातपुष्पस्तवकाभिनम्रा संचारिणी पल्लविनी लतेव // ' अत्रोपमानगतत्वेन संचारिणीत्वं कल्पितम् / न चास्याः पृथग्लक्षणं वाच्यम् , द्वयोरौपम्यप्रतीतेः / सामान्यलणस्यात्राप्यनुगमात् / अथात्र कल्पनास्तीति चेत्, न / एवं हि प्रतिभेदं लक्षणकरणप्रसङ्गः। समुच्चितत्वादेविशेषान्तरस्यापि भावात् / अथोपमानगुणविशिष्टोपमेयावगमफलत्वेनोपमायाः प्रतिभटभूतवस्त्वन्तराभावप्रयोजनत्वेन चास्याः पृथ. गलंकारत्वमिति चेत् , न / अत्रोपमेयस्योपमानगुणविशिष्टतयैव प्रतीतेः फलमे. दाभावात् / तथा हि 'आवर्जिता' इत्यादौ भगवत्या लतायाः सादृश्यस्य संचारिणीत्वेनाभावो मा प्रसासीदिति तयोः साधर्म्यमेव द्रढयितुं कविना लतायाः संचारिणीत्वं कल्पितम् / नन्वत्र भगवत्या अन्यदुपमानं नास्तीति प्रतीयते। अनन्वयादिवदुपमानान्तरनिषेधस्य वाक्यार्थत्वात् / मैवम् / एवमुपमेयस्यापि वैशिष्ट्यकल्पने उपमेयान्तरनिषेधफलत्वं वाच्यम् / समानन्यायत्वात् / तद्यथा दृढारोपे रूपके विषयविषयिणोरभेदमेव द्रढयितुं कस्यचिद्धर्मस्य हानिराधिक्यं वा कल्प्यते तथेहापि सामान्यदाायैव कल्पितत्वं ज्ञेयम् / अत्राप्यभेदालंकाराख्यालंकारान्तरत्वं न वाच्यम् / रूपकेणैवास्या विच्छित्तेः संगृहीतत्वात् / विषयविषयिणोरभेदो हि रूपकसतत्त्वम् / स एव चात्र दायेन प्रतीयत इति को नामास्य रूपकात्पृथग्भावः / अभेदमात्रप्रतीतौ रूपकम् , नियतधर्महानावन्यतः सर्वतोऽ. प्यभेदप्रतीतावभेद इति प्रतीतिभेदोऽप्यस्तीति चेत्, न / एवं ह्यस्ति तावदभेदप्रतीतिरत्रानुगता / यस्तु विशेषः सपृथग्भेदत्वे व्यवस्थापकोऽस्तु न पृथगलंकारत्वे / नहि शावलेयता(?)मात्रेण गोत्वमश्वत्वव्यपदेश्यं भवति / एवं च 'गृहीतविग्रहः कामो वसन्तः सार्वकालिकः। जहार हृदयं कामी नित्यपूर्णः सुधाकरः।' इत्यादौ गृहीतविग्रहत्वादेर्नियतस्य धर्मस्याधिक्येऽप्यलंकारान्तरप्रेसङ्गः / इयं च मालात्वादिनानन्तभेदेति तद्न्थविस्तरभयान्न प्रपञ्चितम् / एकस्यैवेत्यादि / ननु सादृश्याश्रयाणामलंकाराणां लक्षयितुं प्रस्तुतत्वात्सादृश्यस्योभयनिष्ठत्वेनैव 1. 'मैक्म्' ख-पुस्तके नास्ति. 2. 'प्रसङ्गात्' ख.