________________ अलंकारसर्वस्वम् / नान्युपात्तानि / एतेषां धर्मित्वं परस्परावच्छिन्नत्वं च स्फुटमेव / बिम्बप्रतिबिम्बभावः पुनर्धर्मिविशेषप्रतिपादनोन्मुखानां धर्माणां भवति / यथात्रैव / अत्र हि हाराङ्गरागयोः पाण्ड्यस्य विशिष्टतापादनायैवोपादानम् / इन्दुमती प्रति तस्य विशिष्टालम्बनविभावत्वेन विवक्षितत्वात् / अतश्च तयोः परस्परोन्मुखत्वात्स्वात्मन्येवाविश्रान्तिरिति का कथोपमेयतायाः / एवं पाण्ड्यस्याद्रिराजेन हारनिर्झरादिधर्मनिमित्तैवोपमा। तावन्मात्रेणेव सादृश्यपर्यवसानात् / तच्च हारादेः साधारणधर्मस्य बिम्बप्रतिबिम्बत्वादृष्टान्तन्यायस्यैतत्सूदाहरणमेव / ननु हारनिर्झरयोस्तदतद्गामित्वाभावात्कथं साधारणधर्मतेति चेत् , उच्यते-अस्यास्तावद्धर्मस्य साधारण्यं जीवितम् / तच्च धर्मस्यैकत्वे भवति / न च वस्तुतोऽत्र धर्मस्यैकत्वम् / नहि य एव मुखगतो लावण्यादिधर्मः / स एव चन्द्रादौ / तस्यान्वयासंभवात् / अपि तु तजातीयोऽत्रान्योऽस्ति धर्मः। एवं धर्मयोर्भेदात्साधारणलाभावादुपमायाः खरूपनिष्पत्तिरेव न स्यात् / अथ धर्मयोरपि सादृश्यमभ्युपगम्यते तत्तत्रापि सादृश्यनिमित्तमन्यदन्वेष्यम् / तत्राप्यन्यदित्यनवस्था स्यात् / ततश्च धर्मयोर्वस्तुतो भेदेऽपि प्रतीतावेकतावसायाद्भेदेऽप्यभेद इत्येतन्निमित्तमेकत्वमाश्रयणीयम्। अन्यथा ह्युपमाया उत्थानमेव न स्यात् / एवमिहापि हारनिर्झरादीनां वस्तुप्रति वस्तुतयोपात्तानां वस्तुतो भेदेऽप्यभेदविवेक्षकत्वं ग्राह्यम् / अन्यथा ह्येषां पाण्ड्याद्रिराजयोरौपम्यसमुत्थाने निमित्तत्वमेव न स्यात् / न चैषामौपम्यं युक्तमिति समनन्तरमेवोक्तम् / अत एवात्र बिम्बप्रतिबिम्बभावव्यपदेशः / लोको हि दर्पणादौ बिम्बात्प्रतिबिम्बस्य भेदेऽपि मदीयमेवात्र. वदनं संक्रान्तमित्यभेदेनाभिमन्यते / अन्यथा हि प्रतिबिम्बदर्शने कृशोऽहं स्थूलोऽहमित्याद्यभिमानो नोदियात् भूषणविन्यासादौ च नायिका नाद्रियेरन् / प्राच्यैरपि-'स मुनिर्लाञ्छितो मौज्या कृष्णाजिनपटं वहन् / व्यराजन्नीलजीमूतभागश्लिष्ट इवांशुमान् // ' इति। तथा—'स पीतवासाः प्रगृहीतशा मनोज्ञभीमं वपुराप कृष्णः / शतद्देन्द्रायुधवान्निशायां संसृज्यमानः शशिनेव मेघः // ' इत्यत्र मौजीतडितोः शङ्खशशिनोश्च वस्तुतो भेदेऽप्यभेदविवक्षामेवाश्रित्य साधारणधर्मस्य हीनत्वमाधिक्यं चोक्तम् / अत ऎवात्र पूर्व ग्रन्थकृता वस्तुप्रतिवस्तुभाववस्तुद्वयस्य प्राच्योक्तमेव व्यवहारं दर्श'यितुं प्रतिवस्तूपमावदृष्टान्तवचेति तदुक्तमेव दृष्टान्तद्वयं दत्तम् / एवं चात्रामेद१. 'पर्यवसानम्' क. 2. 'विवक्षेत्येकत्वं ख. 3. 'इति' क. 1. 'एव चात्र' ख.