________________ - काव्यमाला / . अत्र वलितत्वावृत्तत्वे संबन्धिभेदाद्भिन्ने / धर्म्यभिप्रायेण तु बिम्बप्रतिबिम्बत्वमेव / - पाण्ड्योऽयमंसार्पितलम्बहारः क्लृप्ताङ्गरागो हरिचन्दनेन / ___आभाति बालातपरक्तसानुः सनिझरोद्वार इवादिराजः // अत्र हाराङ्गरागयोर्निर्झरवालातपौ प्रतिबिम्बत्वेन निर्दिष्टौ / शुद्धसामान्यरूपत्वं बिम्बप्रतिबिम्बभावो क' इति / एतच्च भेदत्रयं प्रायः सर्वेषामेव सादृश्याश्रयाणामलंकाराणां जीवितंभूतत्वेन संभवतीत्यग्रत एव तत्रतत्रोदाहरिष्यामः / क्रमेणेति यथोद्देशेम् / संबन्धिभेदादिति / संबन्धिनोः कंधरावृन्तयोर्भेदात् / न तु हारनिर्झरादिवत्वरूपतो भेदः / वस्तुत एकत्वाद्वलितत्वावृत्तत्वयोरभेदः। ननु यदि वलितत्वावृत्तत्वाख्यो धर्म आननशतपत्रयोः शुद्धसामान्यरूपतयोपात्तस्तद्धर्मी कंधरावृन्तरूपः पुनः किंरूपतयेत्याशङ्कयाह-धर्म्यभिप्रायेणेत्यादि / एवकारः शुद्धसामान्यरूपत्वव्यवच्छेदकः / कंधरावृन्तयोश्व यथोक्ते धर्मित्वेऽप्याननशतपत्रापेक्षया धर्मत्वमेव युक्तम् / आश्रयाश्रयिभावेन धर्मिधर्मभावस्य भावात् / अत एवास्यावास्तवत्वं पूर्वमुक्तम् / अतश्चाननशतपत्रापेक्षया इति न व्याख्येयम् / तयोरुपमानोपमेयभाववाचोयुक्तेरेव युक्तत्वात् / एवं च सति कंधरावृन्तयोः स्वरूपमनभिमतं स्यात् / अनेनैव च बिम्बप्रतिबिम्बभावस्य स्वरूपे दर्शितेऽप्यसंकीर्णप्रकटनाशयेन पुनः ‘पाण्ड्योऽयम्' इत्याद्युदाहृतम् / हाराङ्गरागयोरिति / खरूपयोरिति शेषः / न चात्र बिम्बप्रतिबिम्बभावस्य विषयान्तरं प्रदर्य वाक्यार्थगतामुपमामाशय गुणसाम्यनामा चतुर्थः प्रकारो वाच्यः / यावता हि साधारणधर्मनिबन्धनमुपमास्वरूपं स चात्र धर्मो निर्दिष्टानिर्दिष्टत्वेन द्विविधः / निर्देशपक्षे चास्य त्रैविध्यमुक्तम् / अनिर्देशपक्षे चास्य न वैचित्र्यं किंचिदिति न तदाश्रयं भेदजातमुक्तम् / अतश्चात्र निर्दिष्टः साधारणधर्मो व्यवस्थित इति का नाम चतुर्थप्रकारकल्पना / वाक्यार्थीपमागन्धोऽप्यत्र नास्ति / स ह्यनेकेषां धर्मिणां परस्परावच्छिन्नानां तादृशेरेव धर्मिभिः साम्ये भवति / यथा-'जनयित्र्याः कुलाल्याश्च रक्षित्र्या विदितोऽभवत् / रत्नसूतेर्भुजंग्याश्च प्रच्छन्न इव शेवधिः // ' अत्र जनयित्र्यादीनां रत्नसूत्यादीन्युपमा