________________ अलंकारसर्वस्वम् / साधारणधर्मस्य कचिदनुगामितयैकरूप्येण निर्देशः / कचिद्वस्तुपतिवस्तुभावेन पृथनिर्देशः / पृथङिदेशे च संबन्धिभेदमानं प्रतिवस्तूपमावत् / बिम्बप्रतिबिम्बभावो वा दृष्टान्तवत् / क्रमेणोदाहरणम् 'प्रभामहत्या शिखयेव दीपस्त्रिमार्गयेव त्रिदिवस्य मार्गः / संस्कारवत्येव गिरा मनीषी तया स पूतश्च विभूषितश्च // ' 'यान्त्या मुहुर्वलितकंधरमाननं त दावृत्तवृन्तशतपत्रनिभं वहन्त्या। दिग्धोऽमृतेन च विषेण च पक्ष्मलाक्ष्या गाढं निखात इव मे हृदये कटाक्षः // " पीमिव विषविपाकादिव सुधाम् / प्रवृद्धादुन्मादात्प्रकृतिमिव निस्तीर्य विरहाल्लभेय त्वद्भक्तिं निरुपमरसां शंकर कदा // ' अत्र च्छायावापीसुधाप्रकृतीनामुपमानानां जातिगुणद्रव्यक्रियात्वम् / छायायास्तु जातिरूपत्वाद्गुणत्वं नाशङ्कनीयम् / उपमेयस्य पुनरेतत्स्वयमेवाभ्यूह्यम् / धर्माणां तु यथा-वैदेहि पश्यामलयाद्विभक्तं मत्सेतुना फेनिलमम्बुराशिम् / छायापथेनेव शरत्प्रसन्नमाकाशमाविष्कृतचारुतारम् // ' अत्र विभक्तमित्यस्य क्रियात्वं रामसेतुच्छायापथयोर्द्रव्यत्वं फेनतारकाणां जातित्वं प्रसादस्य च गुणत्वं द्रव्यात्मकाकाशाम्बुराशिगतत्वेनोपनिबद्धम् / एवं प्रकृतामेव महाभाष्यप्रक्रियामपहाय निर्निमित्तमेव प्रक्रियान्तरमाश्रित्य यदन्यैरुक्तं तदयुक्तमेवेत्यलं बहुना / एवंविधस्य चास्य भावाभावरूपतया द्वैविध्यम् / एतच्च न तथा वैचित्र्यावहमिति ग्रन्थकृता नोक्तम्। ऐक्यरूप्येणेति / सकृत् / यद्वक्ष्यति-तत्र सामान्यधर्मस्येवाद्युपादाने सकृनिर्देश उपमा' इति / पृथन्देिश इति / असकृदित्यर्थः / यद्वक्ष्यति-'वस्तुप्रतिवस्तुभावेनासकृन्निर्देशेऽपि सैव' इति / साधारणधर्मस्येत्यत्रापि संबन्धनीयम् / वस्तुप्रतिवस्तुभावेऽपि द्वैविध्यमित्याह-पृथर्देिश इत्यादि / संबन्धिभेदमात्रमिति / न पुनः खरूपभेदः कश्चिदित्यर्थः / यद्वक्ष्यति-असकृन्निर्देशे 1. 'तारतम्यम्' क. 2. यदन्यैराश्रित्योक्तं' क. 3 अ० स०