________________ * काव्यमाला। इति / उपमैवानेकप्रकारवैचित्र्येणानेकालंकारबीजभूतेति प्रथमं नि. र्दिष्टा / अस्याश्च पूर्णालप्तात्वभेदाच्चिरंतनैर्बहुविधत्वमुक्तम् / तत्रापि ति-'आरोपादभेदेऽध्यवसायः प्रकृष्यते' इति / अतश्चाध्यवसायगर्भेष्वलंकारेषु शुद्धाभेदरूपश्चतुर्थः प्रकारोन कश्चिदाशङ्कनीयः। तत्राप्यभेदप्राधान्यस्यैव भावात्। अनयाप्युपमेयोपमादयः संगृहीताः / सामान्यमित्यभेदहेतुकम् / विशेष इति भेदहेतुकः / एवं च भेदाभेदतुल्यत्वविषये यः सादृश्यप्रत्ययो जायते तस्योपमाविषयत्वमुक्तम्। ननु च सत्स्वप्यनेकेष्वर्थालंकारेषु प्रथममियमेव किं निर्दिष्टेत्याशक्ष्याह-उपमैवेत्यादि / अनेकेऽलंकाराः साधाश्रयाः तत्रैवास्याजीव(बीज)त्वात् / उक्तमिति / 'साधर्म्यमुपमा भेदे पूर्णा लुप्ता च साग्रिमा / श्रौत्यार्थी च भवेद्वाक्ये समासे तद्धिते तथा // ' इत्यादिना / अतश्च किमस्माकं तदाविष्करणेनेति भावः / एवं च तेषां गणने तथा न वैचित्र्यं किंचिदिति सूचितम् / तत्रापीति / चिरंतनोक्ते पूर्णत्वादिमेदनिर्देशे सत्यपीत्यर्थः / साधारणधर्मस्येति / धर्मः पराश्रितः तस्य च तदतगामित्वात्साधारणत्वम् / तदेव चोपमाद्युत्थाने निमित्तम् / स च 'चतुष्टयी शब्दानां प्रवृत्तिः' इति महाभाप्यप्रक्रियया जातिगुणक्रियाद्रव्यात्मकेषु धर्मिष्वेवंरूप एव भवति / न चैतद्विरुध्यते / धर्मिधर्मभावस्याश्रयाश्रयिभावेन भावात् / अत एव च धर्मिधर्मभावस्य न वास्तवत्वम् / जात्याद्यात्मनो धर्मिणोऽपि कदाचिदन्याश्रितत्वे धर्मत्वात् / एवं च तदतिरिक्तं धर्ममात्रमपि साधारणं न किंचिद्वाच्यम् / चतुष्टय्या एव शब्दानां प्रवृत्तरुतत्वात् / 'सदयं बुभुजे महाभुजः सहसोद्वेगमियं व्रजेदिति / अचिरोपनतां स मेदिनी नवपाणिग्रहणां वधूमिव // ' इत्यादावुपमानादौ क्रियारूपत्वादेर्योजयितुं शक्यत्वात्तस्या एव च समाविषयावगाहनसहिष्णुत्वात् / ननु जातेः साधारणधर्मत्वे तज्जातीयत्वात्तत्त्वं न स्यान्न तत्सादृश्यत्वमिति कथमुपमाङ्गत्वमस्याः स्यादिति चेत् , न / बिम्बप्रतिबिम्बभावाश्रयेण तथात्वाभावात् / तत्र ह्यसकृनिर्देशाद्वयोर्हारादिकयोर्जात्योः शैत्याद्यभेदनिमित्तावलम्बनेनैकत्वमाश्रित्य सादृश्यनिमित्तं साधारण्यं स्यात् / एतच्च सविस्तरमुपरिष्टाद्वक्ष्यामः / तत्र धर्मिणो जात्यादिरूपता यथा-'घनोद्यानच्छायामिव मरुपथाद्दावदहनात्तुषाराम्भोवा. 1. 'लुप्ताद्वयभेदात्' क. 2. 'अत्रासाधारण' ख. 3. 'धर्मत्वेऽपि' ख. 4 'न सदृशत्वं' क. 5. 'श्वैत्य' ख.