________________ अलंकारसर्वस्वम् / उपमानोपमेययोः साधम्र्ये भेदामेदतुल्यत्वे उपमा // अर्थालंकारप्रकरणमिदम् / उपमानोपमेययोरित्यप्रतीतोपमानोपमेयनिषेधार्थम् / साधर्म्य त्रयः प्रकाराः / मेदप्राधान्यं व्यतिरेकादि. वत् / अभेदप्राधान्यं रूपकादिवत् / द्वयोस्तुल्यत्वं यथास्याम् / यदाहुः-'यत्र किंचित्सामान्यं कश्चिच्च विशेषः स विषयः सदृशताया। निर्गमप्रवेशयोः / उपमानेत्यादि / अथैति / शब्दालंकारनिर्णयानन्तरमवसरप्राप्तमित्यर्थः / ननूपमानोपमेययोरेव साधर्म्य संभवति न कार्यकारणादिकयोरिति किं तदुपादानेनेत्याशयाह-उपमानेत्यादि / तत्रोपमानस्याप्रतीतत्वं लिङ्गभेदादिना प्राच्यैरुक्तम् / यथा-'कटु क्वणन्तो मलदायकाः खलास्तुदन्त्यलं बन्धनशृङ्खला इव / मनस्तु साधु ध्वनिभिः पदे पदे हरन्ति सन्तो मणिनूपुरा इव // ' अत्र क्वणनादेर्धर्मस्योपमानेऽन्यतां करोतीति लिङ्गभेदो दुष्टः / यद्यपि साधारणधर्मस्योभयसंबन्धसंभवेऽपि सिद्धत्वादुपमाने तत्संबन्धस्य खयमेवावगमात्तस्य न शाब्दता युक्तेत्युपमानपारतच्येण लिङ्गादिविपरिणामो न कार्य इति न लिङ्गभेदादेर्दुष्टत्वम् तथाप्युपमानवाक्यस्य साकाङ्क्षत्वात्प्रतीतिविश्रान्तः शाब्दस्तत्संबन्ध उपयुक्त एव / नहि प्रभामहत्यादावुपमानवाक्ये पूतत्वादिसंबन्धं विना समन्वयविश्रान्तिः स्यात् / केवलं समानधर्मस्योपमेये विधीयमानत्वमुपमाने चानूद्यमानत्वमितीयानेव विशेषः / तदुभयत्रापि तत्संबन्धस्यावश्योपयोगादुपपद्यत एव समानधर्मस्यानुगामित्वम् / तल्लिङ्गभेदादेरपि दुष्टत्वं युक्तम् / उपमेयस्याप्रतीतत्वमवर्णनीयस्यापि वर्णनीयत्वम्। यथा-'गौरः सुपीवराभोगो रण्डाया मुण्डितो भगः / मेरोरहयोल्लीढशष्पहेमतटायते // अत्र तन्वझ्या रूपवर्णने भगवर्णनमनौचित्यावहमित्युपमेयस्याप्रतीतत्वम् / भेदाभेदतुल्यत्वं व्याख्यातुं साधर्म्यस्य विषयविभागेण व्यवस्थितिं दर्शयति-साधर्म्य इत्यादिना। एतैरेव च त्रिभिः प्रकारैः साधाश्रयः समग्र एवालंकारवर्गः संगृहीतः / तेन व्यतिरेकवदित्यनेन सहोक्त्यादयः संगृहीताः रूपकवदित्यनेन परिणामोत्प्रेक्षादयः। किंतु रूपकोत्प्रेक्षयोरभेदप्राधान्यसद्भावेऽप्यारोपाध्यवसायकृत एव विशेषः / यद्वक्ष्य 1. 'धर्मस्योपमानैक्यतां' क.