________________ काव्यमाला। तदेवं पौनरुक्त्ये पश्चालंकारः॥ निर्गदव्याख्यातमेतत् / वर्णानां खड्गाद्याकृतिहेतुत्वे चित्रम् // पौनरुक्त्यप्रस्तावे स्थानविशेषश्लिष्टवर्णपौनरुक्त्यात्मकं चित्रवचनम्। यद्यपि लिप्यक्षराणां खगादिसंनिवेशविशिष्टत्वं तथापि श्रोत्राकाशसमवेतवर्णात्मकशब्दामेदेन तेषां लोके प्रतीतेर्वाचकशब्दालंकारोऽयम्। आदिग्रहणाद्यथाव्युत्पत्तिसंभवं पद्मबन्धादिपरिग्रहः / यथा 'भासते प्रतिभासार-रसाभासाहताविमा / भावितात्माशुभावादे देवामा बत ते सभा // ' एषोऽष्टदलपद्मबन्धः / अत्र दिग्दलेषु निर्गमप्रवेशाम्यां श्लिष्टाक्षरत्वम् / विदिग्दलेषु त्वन्यथा / कर्णिकाक्षरं तु श्लिष्टमेव / शब्दैक्यं विनास्यानुत्थानात् / एतदेवोपसंहरति-तदेवमित्यादि / पुनरुक्तवदाभासमर्थपौनरुक्त्याश्रितं, छेकानुप्रासादयस्त्रयः शब्दपौनरुक्त्याश्रयाः / लाटानुप्रासस्तूभयाश्रित इति पञ्च पौनरुक्त्याश्रिता अलंकाराः। यद्यप्युक्तः शब्दार्थगतत्वेनोचरणाभिधानतया मेदात्सामान्याभावात्कस्य पञ्चप्रकारत्वं तथापि तस्या द्वयोरप्यनुगमादेकत्वेन प्रतीतेरुक्तिसामान्यनिबन्धनमेव प्रकारिप्रकारभाववचनम् / यच्चार्थमेदेन शब्दस्यापि भिन्नत्वं तदवास्तवम् / प्रतीतावेकतयैवावभासात् / अत एवानेकार्थवर्गादिष्वपि तथात्वेनैव व्यवहारः। वर्णानामित्यादि / उच्चारणकाले स्थानविशेषश्लिष्टवर्णात्मकखड्गादिसंनिवेशस्याभावात्पौनरुक्त्यप्रतीतिर्नात्रेति किमाश्रयोऽयमलंकार इत्याशझ्याह-यद्यपीत्यादि / लिप्यक्षराणां मषीबिन्दुरूपाणां श्रूयमाणतासतत्त्ववर्णशब्दाभेदप्रतिपत्त्या औपचारिकोऽयं शब्दालंकार इति तात्पर्यार्थः / आदिग्रहणं सफलयितुं पद्मबन्धेनोदाहरतिभासतेत्यादि / खड्गबन्धः पुनर्यथा-'स पात्रीभविता मोक्षक्षणलक्ष्म्या भवारसः / समस्तजनतायाससमुद्राभिन्नताभिदः // ' श्लिष्टमेवेति / अष्टदिकमपि 1. 'निर्विवादं व्याख्यातम्' ख.