________________ अलंकारसर्वस्वम् / 'काशाः काशा इवाभान्ति(न्त) सरांसीव सरांसि च / चेतांस्याचिक्षिपुयूनां निम्नगा निम्नगा इव // ' इत्यादावनन्वयेन सहास्यैकाभिधानलक्षणो न संकरः। अन्योन्यापेक्षया शब्दार्थगतत्वेनार्थमात्रगतत्वेन च व्यवस्थितेभिन्नविषयत्वात् / 'अनन्वये च शब्दैक्यमौचित्यादानुषङ्गिकम् / अस्मिंस्तु लाटानुप्रासे साक्षादेव प्रयोजकम् // ' संसर्गपदान्तर्गतस्य पुनः स्वार्थमुपसर्जनीकृत्य संज्ञिनमभिदधतश्च स्वार्थत्यागात्परार्थे च वृत्तिरस्त्येव लक्ष्यनिष्ठत्वमिति चेत्, नैतत् / लक्षणासामग्र्यभावात् / अत्र ह्यन्यपदार्थप्रधानत्वान्नयनशब्दस्य गुणीभावः, न मुख्यार्थबाधः / स्वार्थ एव विश्रान्तेः / न च गुणीभावमुख्यार्थबाधयोरेकत्वम् / सतो हि मुख्यार्थस्य कंचिदपेक्ष्य गुणीभावः / बाधः युनः खस्मिन्नेवाविश्रान्तिरित्यनयोर्महान्भेदः / नाप्यत्र किंचित्प्रयोजनं न वारूढिरियमित्येतत्पौनरुक्त्यमात्रम् / एवम् , “सितकरकररुचिरविभा विभाकराकारधरणिधरकीर्तिः / पौरुषकमला कमला सापि तवैवास्ति नान्यस्य // ' इत्यादावपि ज्ञेयम् / चमत्कारस्त्वत्रानुप्रासकृतोऽवसेयः / नन्वनन्वयेऽपि शब्दपौनरुक्त्यं दृश्यत इति तत्रापि किमयमेवालंकारः किमु स एवेत्याशङ्कयाह-अनन्वय इत्यादि / आनुषङ्गिकमिति / न पुनः साक्षात्प्रयोजकमित्यर्थः / शब्दैक्यं विनाप्यनन्वयस्य प्रतिपादनात् / अत्र हि शब्दैक्यं क्वचिदक्रियमाणमनौचित्यमावहति क्वचिन्नेति भावः / तत्तु यथा—'यच्चक्षुर्जगतां सहस्रकरवद्धाम्नां च धामार्कवन्मोक्षद्वारमपावृतं च रविवद्धान्तान्तकृत्सूर्यवत् / आत्मा सर्वशरीरिणां सवितृवत्तिग्मांशुवत्कालकृत्साध्वीं नः स गिरं ददातु दिनकृद्योन्यैरतुल्योपमः // ' अत्र सहस्रकरादयोऽन्य इवाभासमाना अनन्वयप्रतीति विघ्नयन्तीति शब्दैक्याभावोऽनौचित्यमावहति न पुनरनन्वयस्याभावात् / 'स्थैर्याद्भापकत्वाद्वियदखिलजगत्प्राणभावान्नभखान्भाखान्विश्वप्रकाशाद्युगपदपि सुधासूतिराहादनाच्च / वह्निः संहारकत्वाजलमखिलजनाप्यायनाचोपमानं सत्यात्मत्वेऽपि यस्य प्रभवतु भवतां सोऽष्टमूर्तिः शिवाय // ' अत्र निर्विघ्नमेवानन्वयस्य प्रतीतेः शब्दैक्याभावो नानौचित्यावहः / तुशब्दो व्यतिरेके / साक्षादिति। 1. क-पुस्तके 'काशाः काशा इवेत्यादौ' एतावदेवास्ति.