________________ काव्यमाला। तात्पर्यभेदवत्तु लाटानुप्रासः // तात्पर्यमन्यपरत्वम् / तदेव भिद्यते, न तु शब्दार्थयोः खरूपम् / यथा ताला जाअंतिगुणा जाला दे सहिअएहि घेप्पति / रइकिरणाणुमाहिआइँ होंति कमलाई कमलाई / ' 'ब्रूमः कियन्नय कथंचन कालमल्प मत्राजपत्रनयने नयने निमील्य / हेमाम्बुजं तरुणि तत्तरसापहृत्य देवद्विषोऽयमहमागत इत्यवैहि / ' अनाजपत्रनयने नयने निमील्येत्यादौ विभक्त्यादेरपौनरुक्त्येऽपि बहुतरशब्दार्थपौनरुक्त्याल्लाटानुप्रासत्वमेव / तात्पर्येत्यादि / अन्यपरत्वमिति / एकस्य वाच्यविश्रान्तत्वेऽन्यस्य लक्ष्ये व्यङ्ग्ये वार्थे वाच्यविश्रान्तिरित्यर्थः / भिद्यत इति पर्यवसाने / आमुखे हि शब्दवदर्थस्याप्येकत्वेनैवावभासः / अत एवाह-न शब्दार्थखरूपमिति / एवं च नायं द्वयोर्वाच्यविश्रान्तत्वेऽनुवादमात्रमलंकारः / नहि दोषाभावमात्रमलंकारखरूपम् / एवं हि सत्यपशब्दाद्यभावस्याप्यलंकारत्वप्रसङ्गः। यत्परमादायुक्तं तत्परमेव पुनर्नोच्यते / इत्येव सामान्येन यद्यप्यन्यपरत्वमुच्यते तद्विरोधादिवत् 'उदेति रक्तः सविता-' इत्यादौ दोषाभावमात्रत्वेप्यलंकारत्वोचितस्यान्यपरत्वाख्यस्यातिशयस्यापि भावालंकारत्वप्रसङ्गः / न चैतावतैव कश्चिदतिशयः प्रतीयत इति यथोकमेव युक्तम् / एकः कमलशब्दो वाच्यपर्यवसितः अन्यश्च सौरभबन्धुरत्वाद्यनेकधर्मनिष्ठ इति तात्पर्यभेदः / ब्रूमः कियदिति / अत्राब्जशब्दस्याप्यपौनरुक्त्यालाटानुप्रासत्वमेवेति चिन्त्यम् / अत्र हि द्वयोरपि नयनशब्दयोर्वाच्यविश्रान्तत्वादन्यपरत्वाभावान्नास्ति तात्पर्यभेदः / स एव ह्यस्य जीवितम् / अन्यथा त्यनुः प्रासमात्रत्वं स्यान्नालंकारत्वम् / अथापि केवलनयनशब्दस्य॑ स्वार्थविश्रान्तिः 1. 'न शब्दार्थस्वरूपम्' इति टीकासंमतः पाठो भाति. 3. 'नयोक्तुमेव ज्यायः' ख.