________________ अलंकारसर्वस्वम् / शब्दार्थपौनरुक्त्यं प्ररूढं दोषः। प्ररूढग्रहणं वक्ष्यमाणप्रभेदवलक्षण्यार्थम् / यदाहुः-'शब्दार्थयोः पुनर्वचनं पुनरुक्तमन्यत्रानुवादात् / ' इति / साहारम् / सं ताणं संताणं संताणं मोहसंताणम् // ' अत्र सज्जसाहारमित्यनर्थकम्। अन्यानि तु सार्थकानीति न कश्चिद्दोषः / इदं च स्थाननियममन्तरेण न भवति / यदुक्तम्- 'पदमनेकार्थमक्षरं चावृत्तं स्थाननियमे यमकम्' इति / अत एव स्थाननियमाद्यमकमित्यस्यान्वर्थमभिधानम् / स च स्थाननियमो वैवक्षिको न वास्तवः / यथा-'मधुपराजिपराजितमानिनीजनमनःसुमनःसुरभि श्रियम् / अमृत वारितवारिदविप्लवां स्फुटितताम्रतताम्रवणं जगत् // ' अत्राक्षरद्वयानन्तरं यमकविन्यासात्स्थानस्य नियतत्वम् / यथा वा-'छिन्द्याद्भयाति तव कार्तिकेयः शशी जितो येन स कार्तिकेयः। उत्खातदन्तो गणनायकस्य खामी यदन्यो गणनाय कस्य // ' अत्र चार्थद्वये यमकद्वयमिति स्थाननियमो द्विधैवेति नास्यालंकारस्य क्षतिः काचित् / अतश्च 'श्रृंतरसिकलितरुकतरसिकलितरुजालहरिजालहरिणतमः (1) / हरिणतमश्च ततस्तव ततस्तवः स्याद्यशोराशिः // ' इत्यत्र सत्त्वेऽपि खरव्यञ्जनसमुदायपौनरुक्त्यस्य स्थाननियमाभावाद्यमकाभासोऽयं वृत्त्यनुप्रासः / प्रमढमिति / यथाभासनं विश्रान्तेः। यथा-तदन्वये शुद्धिमति प्रसूतः शुद्धिमत्तमः / दिलीप इति राजेन्दुरिन्दुः क्षीरनिधाविव // ' अत्रेन्दुरिति / अत्रिनेत्रक्षीरोदजन्मत्वादिन्दोर्द्वित्वानैतत्प्ररूढमिति न कार्यम् / कविसमये तथात्वस्याप्रतीतेः / आहुरित्याक्षपादाः / अन्यत्रानुवादादिति / अनुवादे हि शब्दार्थयोः पुनर्वचनं क्रियमाणं न दोषाय / अक्रियमाणं पुनर्दोषाय भवतीति भावः / यथा-'उदेति रक्तः सविता रक्त एवास्तमेति च / संपत्तौ च विपत्ती च महतामेकरूपता // ' अत्र रक्त इति / 'शिरः शार्व वर्गात्पशुपतिशिरस्तः क्षितिधरं महीध्रादुत्तुङ्गादवनिमवनेश्चापि जलधिम् / अधोधो गङ्गावद्वयमुपगता नूनमथवा विवेकभ्रष्टानां भवति विनिपातः शतमुखः // ' अत्र पौनरुक्त्येऽपि शब्दस्यापुनर्वचनं प्रतीत्यन्तरजनकत्वाद्दोषः / तदेवाप्ररूढमलंकार इत्याह१. 'श्रुतरसिक तरसिकलितं तरुकलिततरुजालहरिणतमः' ख. 2. 'भासमानं' ख.