________________ 26 - . काव्यमाला / यथा वा- 'सह्याः पन्नगफूत्कृतानलशिखा नाराचपाल्योऽपि वा राकेन्दोः किरणाविषद्रवमुचो वर्षासु वा वायवः / न त्वेताः सरलाः सितासितरुचः साचीकृताः सालसाः साकूताः समदाः कुरङ्गकदृशां मानानुविधा दृशः // ' खरव्यञ्जनसमुदायपौनरुक्त्यं यमकम् // अत्र क्वचिद्भिन्नार्थत्वं कचिदभिन्नार्थत्वं कचिदेकस्यानर्थकत्वमपरस्य सार्थकत्वमिति संक्षेपतः प्रकारत्रयम् / यथा 'यो यः पश्यति तन्नेत्रे रुचिरे वनजायते / तस्य तस्यान्यनेत्रेषु रुचिरेव न जायते // ' इदं सार्थकत्वे / एवमन्यज्ज्ञेयम्। . ___.............. .. ख्यया / ग्राम्यां वृत्तिं प्रशंसन्ति काव्येष्वादृतबुद्धयः // ' यथा-'निरर्गलाविनिर्गलद्गुलगुलाकरालैर्गलैरमी तडिति ताडितोडमरडिण्डिमोड्डामराः / मदाचमनचक्षुरप्रचुरचञ्चरीकोचयाः पणः परिणतिक्षणक्षततटान्तरा दन्तिनः // ' अत्र लकारायावृत्त्या मध्यमत्वमिति वृत्तित्रैविध्यम् / एवं व्यञ्जनमात्राश्रयमलंकारद्वयं लक्षयित्वा खरव्यञ्जनाश्रयं यमकं लक्षयति-खरेत्यादि / एकस्येत्याधुपलक्षणपरम् / अतो बहनां यमकानां क्वचित्सार्थकत्वं निरर्थकत्वं च स्थितं संगृहीतमेव / क्वचित्सार्थकत्वं क्वचिन्निरर्थकत्वं' इति तु पाठे प्रथममेव मेदद्वयमुक्कं स्यान्न तृतीयः प्रकारः। अतश्च भेदनिर्देशग्रन्थो यथास्थित एव ज्यायान् / संक्षेपत इति / एतच्च काव्यात्मभूतरसचर्वणाप्रत्यूहकारित्वात्प्रपञ्चयितुं न योग्यमिति चिरंतनालंकारवन विभज्य लक्षितमिति भावः / एवं चित्रेऽपि ज्ञेयम् / अन्यदिति प्रकारद्वयम् / तत्रानर्थकं यथा-'सरसमन्थरतामरसादरभ्रमरसजलया नलिनी मधौ / जलधिदेवतया सदृशीं श्रियं स्फुटतरागतरागरुचिर्दधौ // ' अत्र तरागेत्यनर्थकम् / अनर्थकत्वसार्थकत्वयोर्यथा-'साहारं साहारं साहारं मुणइ सज 1. खेताः' ख..