________________ * काव्यमाला / ... शब्दपौनरुक्त्यं व्यञ्जनमात्रपौनरुक्त्यं खरव्यञ्जनसमुदायपौनरुक्त्यं च / अलंकारप्रस्तावे केवलं खरपौनरुक्त्यमचारुत्वान्न गण्यते / इति द्वैविध्यमेव खरव्यञ्जनसमुदायपौनरुक्त्यं च / / संख्यानियमे पूर्व छेकानुप्रासः॥ . द्वयोर्व्यञ्जनसमुदाययोः परस्परमनेकधा सादृश्यं संख्यानियमः / पूर्व व्यञ्जनसमुदायाश्रितं यथा "किं नाम दर्दुर दुरध्यवसाय सायं ___ कायं निपीड्य निनदं कुरुषे रुषेव / एतानि केलिरसितानि सितच्छदाना * माकर्ण्य कर्णमधुराणि न लज्जितोऽसि // ' अत्र सायंशब्देनास्यालंकारस्य यकारमात्रसादृश्यापेक्षया वृत्त्यनुप्रासेन सहकामिधानलक्षणः संकरः / छेका विदग्धाः / नविसंधायिनं विराजमानं च, शारीभूतं मदसलिलेन शबलीभूतं च, इति पुनरुक्ताश्रयम्' इत्यनङ्गलेखायां हस्तिवर्णने। 'बतहन्तासितः कालो गोविभावसुदीधितीः / क्षिपास्य रक्षावसितश्वेतराजयशोभय // ' असमस्तपदं तु ग्रन्थकृतैवोदाहृतम् / केवलखरपौनरुक्त्यं किं न गणितमित्याशझ्याह-अलंकारेत्यादि / यथा-'इंदीवरम्मि इंदम्मि इंदआलम्मि इंदिअगणम्मि इदिदिरम्म इंदमि जोइण्णो सरिससंकप्पो // ' अत्र खरपौनरुक्त्यस्य चारुत्वाभावान्नालंकारत्वम् / अत्र केवल. व्यञ्जनखरव्यञ्जनसमुदायाश्रितमलंकारद्वयं लक्षयति-संख्येत्यादिना। एकबचनस्य जात्या बहुत्वप्रसङ्गाद्ववचनस्य च त्र्यादीनां खयमेव बहुत्वात्संख्यानियमो द्वित्व एव संभवतीति द्वयोरित्युक्तम् / द्वयोरप्येकधा सादृश्यं वृत्त्यनुप्रास एवेत्याशझ्याह–अनेकधेति / यकारमात्रेत्यनेन द्वयोरेव सादृश्यमस्य जीवितमिति ध्वनितम् / यद्यपि चायं व्यञ्जनमात्रपौनरुक्त्याख्यस्य सामान्यलक्षणस्य संभवादनुप्रास एवान्यैरन्तर्भावितः तथाप्यस्य ग्रन्थकृता उद्भटमतानुरोधादिह 1. 'संकम्मा' क. 2. 'तत्र' ख.