SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ अलंकारसर्वस्वम् / प्रभेदास्तु विस्तरभयानोच्यन्ते। उदाहरणं मदीये श्रीकण्ठस्तवे यथा 'अहीनभुजगाधीशवपुर्वलयकङ्कणम् / शैलादिनन्दिचरितं क्षतकंदर्पदर्पकम् // वृषपुंगवलक्ष्माणं शिखिपावकलोचनम् / ससर्वमङ्गलं नौमि पार्वतीसखमीश्वरम् // '. . 'दारुणः काष्ठतो जातो भस्मभूतिकरः परः। रक्तशोणार्चिरुचण्डः पातु वः पावकः शिखी // ' एतच्च सुबन्तापेक्षया / तिङन्तापेक्षया च तथा तत्रैव 'भुजंगकुण्डली व्यक्तशशिशुभ्रांशुशीतगुः / जगन्त्यपि सदापायादव्याञ्चेतोहरः शिवः // वाच्यवाचकभावेनालंकार्यालंकरणभावात्तस्याश्रयाश्रयिभावेनोपपत्तेः। अत एव सर्वेषामेवार्थालंकाराणामुपमितार्थादिवादित्वाच्छब्दस्य तदलंकारत्वं स्यादित्युक्तम्। नापि तृतीयः / पुनरुक्तवदाभासमित्यन्वर्थसंज्ञाश्रयणात् / पौनरुक्त्याख्यधर्मप्रयोजकीकारेणालंकारस्योपक्रान्तत्वात् श्लिष्टत्वस्येहानौपयिकत्वात् / तत्पुनरत्रार्थपौनरुत्यावगमे निमित्तमात्रम् / निमित्तनिमित्तिभावश्च नालंकारत्वप्रयोजक इत्यविवादः / तस्मादर्थाश्रयत्वात्पौनरुक्त्यस्य तदलंकारत्वमेवेति युक्तम् / एवं वक्रलंकारतापि निरस्ता / सर्वेषामपि वक्रतिशयरूपत्वात्तथात्वानुपपत्तेः / विस्तरभयादिति / न तु चित्रत्वाभावात् / नोच्यन्त इति / वस्तुतस्तु संभवन्येवेत्यर्थः। अतश्चार्य प्रायो वाक्यार्थपदार्थाश्रयत्वात्प्रथमं द्विधाभवन्समस्तासमस्तपदत्वेन चतुर्विधः / क्रमेण यथा-'तुहिनक्षितिभृयुष्मान्पातात्सर्वत्र सर्वदा ख्यातः / हिमवानवतु सदा वो विश्वत्र समागतः ख्यातिम् // ' 'नदीप्रकरमुल्लिङ्गितवन्तं मनोहरहस्तमत्यजन्तं च, सपर्याणां रुचिं वहन्तं सर्वत्र पूजनीयं च, सकुम्भ सकलशंचरन्तं च, सदानदन्तं मदपर्याविलदशनं च, करटं कमपि विभ्रतं कवाटविभ्रमममुञ्चन्तं च, कुञ्जराजिवर्धितरुचिं वारणरणरणिकाकुलितं च, राजमा 1. 'तथात्वोपपत्तेः.' ख.
SR No.004394
Book TitleAlankarsarvasva
Original Sutra AuthorN/A
AuthorGirijaprasad Dvivedi
PublisherPandurang Javaji
Publication Year1939
Total Pages292
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy