________________ 22 काव्यमाला। यद्यस्योच्यते तथापि पर्यवसाने वस्तुतस्तुल्यार्थत्वस्यासंभवात् शशावद्धर्मधर्मिभावो दुष्टः स्यात् / सत्त्वेऽपि दोष एवेत्यस्मत्पक्षोक्तसमप्रचोद्यावकाशः। अत्रापि यद्यामुख एवैकार्थत्वेनावभासनं समाधिस्तदास्मत्पक्षण किमपराद्धम् / एवं च विरोधेऽपि वस्तुतो विरुद्धस्यार्थस्यासंभवाविरुद्धार्थस्य च शब्दधर्मत्वात् शब्दालंकारत्वं प्रसज्यते / अत्र विरुद्धस्यार्थस्यासंभवेऽपि कादिभिर्वाच्यतयाध्यवसायः। इह तु पौनरुक्त्याश्रयस्यानन्वितत्वेन न वाच्यतेति चेत् , नैतत् / यतः 'दारुणः काष्ठतो जातः' इत्यादौ तावत्पौनरुक्त्याश्रयस्य काष्ठादेरर्थस्य जातत्वादिना सहान्वितत्वावगमादस्त्येव मुख्यया वृत्त्या वाच्यत्वम् / 'अरिवधदेहशरीरः' इत्यादौ तु वस्तुतः कायादेरवाच्यत्वेऽप्यवभातपौनरुक्त्याश्रयत्वादकृत्रिमार्थशोभापर्यवसायित्वेन वाच्यतयास्त्येव विवक्षितत्वम् / अत्र ह्यकृत्रिमोऽर्थोऽलंकृतकृत्रिमार्थोपस्कृतो यथा चमत्कारकृन्न तथा तदुपस्कृततयोच्यमानः स्यात् / 'स्त्रीणां हि कण्ठाभरणानि हाराः पयोधरानप्यभिभूषयन्ति' इत्यादि दृशा च हारस्य कण्ठालंकारत्वेऽपि सामीप्यात्तावतिशोभातिशयाधायकत्वाद्यथा पयोधरादावप्यलंकारत्वं तयैव कृत्रिमार्थाश्रयत्वेऽप्यवभासमानस्य पौनरुक्तस्याकृत्रिमार्थोपस्कारकत्वमपि प्रतीयत एवेति नानुभवापहवः कार्यः / एवं च पौनरुक्त्याश्रयस्यार्थस्य यत्रैव वाच्यत्वेन विवक्षितत्वं तत्रैवास्यालंकारत्वं नान्यत्र / 'अकृष्णपक्षेन्दुमुखी बन्धुजीवाधरद्युतिः / इयं विलासिनी कस्य न नेत्रोत्सवकारिणी // ' अत्राकृष्णेत्यर्थपौनरुक्त्यस्य संभवेऽपि वाच्यत्वेनाविवक्षितत्वान्नायमलंकारः / एवं वक्ष्यमाणानामप्यलंकाराणां कविविवक्षैव खरूपप्रतिष्ठापकं प्रमाणं ज्ञेयम् / किं बहुना, सर्वेषामप्यलंकाराणामुपमितार्थत्वादेः शब्दधर्मत्वाच्छब्दालंकारत्वं स्यात् / तदर्थालंकारत्वमस्य ज्यायः / यावता ह्यर्थस्यामुक्त एव पुनरुक्ततयावभासोऽस्य जीवितम्। अत एव पुनरुक्तवदाभासमित्यन्वर्थसंज्ञा / अर्थस्य च पौनरुक्त्यप्रतीतौ न कस्यचिद्विवादः तामेवाश्रित्य शब्दालंकारस्य भवद्भिरक्तत्वात् / एवं च प्रत्यासत्तेस्तदाश्रयत्वमेवास्यालंकारत्वं युक्तम् / अन्यथा तुल्यार्थशब्दतापि वाक्यधर्म इति तदाश्रयोऽपि स्यादित्यनवस्थाप्रसाः / अथात्र शब्दखरूपवैशिष्ट्यनिबन्धनं चमत्कारकारित्वमिति तदलंकारत्वमिति चेत्, किं नाम शब्दस्य स्वरूपे वैशिष्टयम् / कि पौनरुत्यम् , उत पुनरुक्तार्थवाचित्वम् , उत सभङ्गाभङ्गपदेन श्लिष्टत्वम् / तत्र न तावदाद्यः पक्षः। शब्दस्य द्विरुच्चारणाभावात्तथात्वाप्रतिभासनात् / नापि द्वितीयः / 1. 'विरुद्धार्थत्वस्य शब्द' ख.