________________ अलंकारसर्वस्वम् / तयध्वननार्थः / अर्थपौनरुक्त्यादेवार्थाश्रितवादर्थालंकारत्वं ज्ञेयम् / झ्याह-अर्थेत्यादि / एवकारः शब्दपौनरुक्त्यावच्छेदद्योतकः / तेन शब्दस्यापौनरुक्त्यान्न शब्दालंकारो नाप्युभयालंकारोऽयमित्यर्थः / पर्यवसाने वस्तुतोऽर्थस्यासत्त्वात् / धर्म्यभावे च धर्मस्य निर्विषयत्वात्पौनरुक्त्यं कस्य धर्मः स्यादिति न वाच्यम् / आमुखेऽर्थस्यावभासमानत्वेन सत्त्वाद्धर्मिधर्मभावस्य नैवानिष्टेरर्थगतयोः सत्त्वासत्त्वयोरनुपयोगात् / आमुखावगतैव च प्रतीतिरलंकारबीजं न पार्यवसानिकी। तथात्वे ह्युपमारूपकादीनामप्यविशेषः स्यात् / पर्यवसानेऽप्यर्थस्य 'दारुणः काष्ठतो जातः' इत्यादाविन्धनार्थस्य सत्त्वादनैकान्तिकत्वाभावाच्छशगवदभावो न वाच्यः / पर्यवसानेऽप्यन्धनार्थः सन्नपि नालंकारत्वप्रयोजक इति 'अरिवधदेहशरीरः' इत्यादावप्यसता कार्यार्थेनाविशेषात्समानः। किं च इतो न पर्यवसानेऽर्थस्यासत्त्वम् / इह. हि प्रतीतिमात्रसारत्वात्काव्यस्य यद्यथैव प्रतीयते तत्तथैव भवतीत्यविवादः / तद्बाधोत्पत्तावपि तैमिरिकद्विचन्द्रप्रतीतिवत् पुनरुक्ततयावभातस्यार्थस्यावभासमानत्वात्सत्त्वमेव / नहि शतशोपि क्रूराद्यर्थोपलम्मे काष्ठादेरर्थस्यापुनरुक्ततया भानमस्ति / बाधोत्पत्तेः पुनर्द्विचन्द्रप्रतीतिवत्पौनरुक्त्यप्रतीतेरनु. पपद्यमानत्वं भवति / नतु शुक्तिकायामिव रजतप्रत्ययस्य खरूपत एवाभावः / अत एवाभातपौनरुक्त्यापि प्रतीतिरपौनरुक्त्यपर्यवसायिन्यस्य स्वरूपम् / एवमपि वस्तुतः कार्याद्यर्थाभावस्तदवस्थ इति चेत् , सत्यम् / किं तु यथा वस्तुतो बहिरसंभवन्नपि द्वितीयश्चन्द्रः प्रतीतौ कंचन विशेषमाधातुं नोत्सहते तथेहापि वस्तुवृत्तेन कायादेरर्थस्यासंभवेऽपि प्रतीतौ न कश्चिद्विशेष इति दिण्डिकाराग एव वास्तवत्वान्वेषणम् / तस्मादत्रावभासमानत्वमेवार्थस्य सत्त्वप्रतिष्ठापकं प्रमाणम् न त्ववभासमानत्वं प्रमातृधर्म इति कथं तदाश्रयो धर्मः काव्यालंकार इति चेत्, असदेतत् / अवभासमानत्वस्यावभास्यनिष्ठतया प्रतीतेरर्थधर्मत्वात् / तथा हि केषांचन प्रतीतिवादिनां 'तथाहि वेद्यता नाम भावस्यैव निजं वपुः / चैत्रेण वेद्यं वेग्रीति किं ह्यत्र प्रतिभासते // ' इत्याद्युक्तयुक्त्या कौमारिलवन्नीलताया इव वेद्यताया अप्यर्थधर्मत्वमेवेष्टम् / इह च तदुपक्रम एवेति न वस्तुवादसंस्पर्शीन्याय्यः। आमुखतुल्यार्थत्वस्य च शब्दधर्मत्वेन शब्दाश्रयत्वात् शब्दालंकारत्वं 1. 'अथ' ख. 2. 'दृष्टं ख.