________________ काव्यमाला। तत्रार्थपौनरुक्त्यं प्ररूढं दोषः। प्ररूढापरूढत्वेन द्वैविध्यम् / प्रथमं हेयवचनमुपादेये विश्रान्त्यर्थम् / तत्रेति त्रयनिर्धारणे / यथावभासनविश्रान्तिः प्ररोहः / / आमुखावभासनं पुनरुक्तवदाभासम् // '' आमुखग्रहणं पर्यवसानेऽन्यथात्वप्रतिपत्त्यर्थम् / लक्ष्यनिर्देशे नापुंसकः संस्कारो लौकिकालंकारवैघ\ण काव्यालंकाराणामलंकार्यपार - नुल्लङ्घनेन च वयं प्रवृत्ता इत्ययुक्तमपि ग्रन्थकृता तन्मतमाश्रितम् / अग्रेऽप्यनेनाशयेन तन्मताश्रयणं करिष्यत्येव / तेन वयं यच्चिरंतनमताश्रयणं व्याख्यास्यामस्तद्युक्तमेव / एतदेव यथोद्देशं निर्णेतुमाह-तत्रेत्यादि / किमलंकारप्रस्तावे दोषकथनेनेत्याशङ्कयाह-प्रथममित्यादि / उपादेय इत्यलंकारस्वरूपे / यथेति। यथैव दृष्टस्तथैव पर्यवसित इत्यर्थः / यथा-'हरिणनयनां सारङ्गाक्षी कुरगविलोचनां कमलवदनां राजीवास्यां सरोजसमाननाम् / विलुलितकचा चश्चत्केशी चलचिकुरोत्करां सुरतविरतौ संभोगान्ते विलोकय कामिनीम् // ' अत्र सारजा. क्षीमित्यादिषु पुनर्वचनं प्ररूढम् / अप्ररूढं पुनरलंकारः / चैतावतैव दोषाभावमात्रेणालंकारत्वमस्याशङ्कयम् / . वक्ष्यमाणनीत्यालंकारत्वोचितस्य विच्छित्तिविशेषस्यापि भावात् / तदेवाह-आमुखेत्यादि / अन्यथात्वेति / यथावभातस्यार्थस्य पर्यवसाने तथात्वेनैवाविश्रान्तिरित्यर्थः / अन्यथा युक्तनीत्या दोषः स्यात् / ननु पुनरुतवदाभासशब्दस्यालंकारशब्दसामानाधिकरण्यादुपमादिवदजहल्लित्वयोगाच पुंलिङ्गत्वे किमितीह नापुंसकः संस्कारः कृत इत्याशङ्कयाह-लक्ष्ये. त्यादि / लक्ष्यस्य लक्षणीयस्य पुनरुक्तवदाभासस्य पुनः शब्दापेक्षया निर्देशे वचन मित्यर्थः / अलंकार्यपारतव्येति / काव्यसामानाधिकरण्येन निर्देशात् / लौकिका हारादयः / एषां ह्यलंकार्येण सह संयोगः संबन्धः / अत एवैषां तत्परतन्त्रतापि न स्यात् / काव्यालंकाराणां पुनरलंकार्येण सह समवायः संबन्धः / अत एवैषामयुतसिद्धत्वादलंकार्यपारतन्वयमेवेति लौकिकालंकारवैधर्म्यमेव न्याय्यम् / आश्रयाश्रयिभावेनालंकार्यालंकरणभावोपपत्तेः किमाश्रयमस्यालंकारत्वमित्याश• 1. 'प्ररूढदोषः' ख.. 2. 'पर्यवसानान्यथात्व' ख.