________________ अलंकारसर्वस्वम् / वाच्याङ्गत्वादिभेदैर्यथासंभवं समासोक्त्यादौ दर्शितः। चित्रं तु शब्दा र्थालंकारस्वभावतया बहुतरप्रभेदम् / तथा हि___ इहार्थपौनरुक्त्यं शब्दपौनरुक्त्यं शब्दार्थपौनरुक्त्यं चेति त्रयः पौनरुक्त्यप्रकाराः॥ . आदौ पौनरुक्त्यप्रकारवचनं वक्ष्यमाणालंकाराणां कक्षाविभागघटनार्थम् / अर्थापेक्षया शब्दस्याप्रतीतावन्तरङ्गत्वेऽपि प्रथममर्थगतधर्मनिर्देशश्चिरंतनप्रसिद्ध्या पुनरुक्तवदाभासस्य पूर्व लक्षणार्थः / इहेति शाब्दप्रस्तावे / इतिशब्दः प्रकारे / त्रिशब्दादेव संख्यापरिसमाप्तिसिद्धेः / -'व्यङ्गस्य यत्र प्राधान्यं वाच्यमात्रानुयायिनः / समासोक्सादयस्तत्र वाच्यालंकृतयः स्फुटाः // ' इति / एवं गुणीभूतव्यङ्ग्यस्याप्यन्यतो मेदजातं योजयित्वा चित्रस्यापि प्रभेदजातं दर्शयितुमाह-चित्रमित्यादि / तुशब्दः काव्यप्रकारद्वयादस्य वैलक्षण्यद्योतकः / अत एव बहुतरप्रभेदमित्युक्तम् / शब्दार्थेयेकशेषः / तेनोभयालंकाराणामपि ग्रहणम् / तदेव दर्शयितुमाह-तथाहीत्यादि। चित्राख्यकाव्यभेदनिरूपणावसरे किं पौनरुक्त्यप्रकारवचनेनेत्याशङ्कयाह-आदावित्यादि / वक्ष्यमाणालंकाराः पुनरुक्तवदाभासादयः पञ्च / शब्दप्रतीतिपुरःसरीकारेणार्थप्रतीतिरिति प्रथमं शब्दगत एव धर्मनिर्देशो न्याय्यो नार्थगत इत्याशङ्कयाह-अर्थत्यादि / चिरंतनप्रसिद्ध्येति / न पुनयुज्यमानतयेति भावः। 'पुनरुक्तवदाभासं छेकानुप्रास एव च' इति चिरंतनप्रसिद्धिः / अर्थालंकारत्वादर्थालंकारप्रकरणे पुनरस्य युज्यमानत्वम् / नन्वादौ शब्दगतो धर्मनिर्देशः कार्यः पश्चादर्थगत इति क्रमस्य न किंचित्प्रयोजनमुत्पश्याम इति किं तेनेति यदन्यैरुक्तं तदयुक्तम् / शब्दार्थयोः क्रमेणैव प्रतीताववभासनात्तथात्वेनैव धर्मनिर्देशस्योपपत्तेः किं च 'वर्धमानोत्कर्षाणि शास्त्राणि प्रथन्ते' इति नीत्या परिमितचमत्काराणामर्थालंकाराणां पश्चान्निर्देशः कार्य इति सप्रयोजन एव क्रमः / चिरंतनमैता 1. 'लक्ष्यमाण' क. 2. 'उक्तं पश्यामः' क. 3. 'मतोलवनेनैव' क. .