________________ काव्यमाला। ध्वनिः संलक्ष्यक्रमव्यङ्ग्यः। शब्दार्थोभयशक्तिमूलो वस्तुध्वनिरलंकारध्वनिश्चेति / तत्र रसादिध्वनिरलंकारमञ्जयां दर्शितः काव्यस्य शृङ्गारप्रधानत्वात् / शिष्टस्तु यथावसरं तत्रैव विभक्तः / गुणीभूतव्यङ्गयो प्रसाधितभुवः क्षतविग्रहाश्च खस्था भवन्तु कुरुराजसुताः सभृत्याः // ' अत्र कौरवाणां क्षतशरीरादिकत्वं वस्तुरूपं शब्दशक्त्यैव प्रतीयते / स एवार्थशक्तिमूलो यथा-अरससिरोमणि धुत्ताण अग्गिमो पुत्ति धणसमिद्धिमओ / इइ भणिएण गअंगी पप्फुल्लविलोअणा जाआ // ' अत्रार्थशक्त्या ममैवोपभोग्योऽयमिति वस्तु व्यज्यते / स एवोभयशक्तिमूलो यथा-'पथिअ ण एत्थ सत्थरमत्थि मणं पत्थरत्थले ग्गामे / उग्गअपओहरं पेक्खिऊण जइ वससि ता वससु // ' अत्र यद्युपभोगक्षमोऽसि तदा आस्खेति वस्तु वक्रौचित्यमाश्रित्य शब्दार्थशक्त्याभिव्यज्यत इत्युभयशक्तिमूलत्वम् / शब्दशक्तिमूलोऽलंकारध्वनिर्यथा-'उन्नतः प्रोल्लसद्धारः कालागुरुमलीमसः / पयोधरभरस्तन्व्याः कं न चक्रेऽभिलाषिणम् // ' अत्र शब्दशक्त्या मेघलक्षणमर्थान्तरं प्रतीयते / प्रकृताप्रकृतयोश्वार्थयोरसंबद्धाभिधायित्वं मा प्रसासीदिति तयोरौपम्यं कल्प्यत इत्यलंकारध्वनिः / स एवार्थशक्तिमूलो यथा-'त ताण सिरिसहोअररअणाहरणम्मि हिअअमेकरसं / बिंबाहरे पिआणं णिवेसिअं कुसुमबाणेन // ' अत्र कौस्तुभबिम्बाधरयोः केवलयैवार्थशक्यौपम्यं गम्यत इत्यर्थशक्तिमूलोऽलंकारध्वनिः / उभयशक्तिमूलो यथा-'जणहिअअविदारणए धारासलिललुलिए ण रमइ तहा / तव दिट्ठी चिउरभरे पिआण जह वैरिखग्गम्मि // ' अत्रोभयशक्त्याः चिकुरभरखङ्गयोरौपम्यं गम्यते। इतिशब्दः प्रमेयपरिसमाप्तौ / एवं ध्वनेः प्रमेदजातं प्रदर्य क्रमप्राप्तं गुणीभूतव्यङ्ग्यस्थान्यतो योजयति-गुणीभूतेत्यादिना / दर्शित इति ध्वनिकारेण / यदाह ....1. 'अलसशिरोमणिपूंर्तानामग्रिमः पुत्रि धनसमृद्धिमयः / इति भणितेन नताङ्गी प्रफुल्लविलोचना जाता // ' इति च्छाया. 2. 'पथिक नात्र स्रस्तरमस्ति मनाक् प्रस्तरसके ग्रामे / उद्गतपयोधरं प्रेक्ष्य यदि वससि तद्वस // ' इति च्छाया. 3. 'तत्तेषां श्री सहोदररत्नाहरणे हृदयमेकरसम् / बिम्बाधरे प्रियाणां निवेशितं कुसुमबाणेन // ' इतित च्छाया. 4. 'जनहृदयविदारणके धारासलिललुलिते न रमति तथा / तव दृष्टिश्चिकुर'भरे प्रियाणां यथा वैरिखङ्गे // ' इति च्छाया.