________________ अलंकारसर्वस्वम् / शक्तिमूलो वस्तुध्वनिरसंलक्ष्यक्रमव्यङ्ग्यः। अर्थशक्तिमूलो वस्तु(रसादि) नमिति प्राधान्याच्छब्दशक्तिमूलत्वमुक्तम् / एवमर्थशक्तिमूलत्वेऽपि ज्ञेयम् / वस्तुध्वनिरिति / रसालंकारव्यतिरिक्तस्य वस्तुमात्रस्य ध्वन्यमानत्वात् / तत्रार्थान्तरसंक्रमितवाच्यो वस्तुध्वनिर्यथा-'स्निग्धश्यामलकान्तिलिप्तवियतो वेल्लद्वलाका घना वाताः शीकरिणः पयोदसुहृदामानन्दकेकाः कलाः। कामं सन्तु दृढं कठोरहृदयो रामोऽस्मि सर्व सहे वैदेही तु कथं भविष्यति हहा हा देवि धीरा भव // ' अत्र रामशब्दो राज्यनिर्वासनाद्यसंख्येयदुःखभाजनत्वखरूपं वस्तु ध्वनति / अत्यन्ततिरस्कृतवाच्योऽपि यथा-'रविसंक्रान्तसौभाग्यस्तुषारावृतमण्डलः / निःश्वासान्ध इवादर्शश्चन्द्रमा न प्रकाशते // अत्रान्धशब्दः खार्थ निमित्तीकृत्यादर्शनसाधारणविच्छायत्वादिधर्मजातं वस्तुरूपं व्यनक्ति / रसादीति / आदिशब्दाद्भावतदाभासादयः / तत्र रसध्वनिर्यथा—'त्वामालिख्य प्रणयकुपितां धातुरागैः शिलायामात्मानं ते चरणपतितं यावदिच्छामि कर्तुम् / अनस्तावन्मुहुरुपचितैदृष्टिरालिप्यते मे क्रूरस्तस्मिन्नपि न सहते संगमं नौ कृतान्तः // ' अत्र विभावानुभावव्यभिचारिभिरभिव्यक्त एव रसः। भावध्वनियथा-'जाने कोपपराङ्मुखी प्रियतमा स्वप्नेऽद्य दृष्टा मया मा मा संस्पृश पाणिनेति रुदती गन्तुं प्रवृत्ता ततः। नो यावत्परिरभ्य चाटुकशतैराश्वासयामि प्रियां भ्रातस्तावदहं शठेन विधिना निद्रादरिद्रीकृतः // ' अत्र विधिं प्रत्यसूयाख्यो व्यभिचारिभावः / रसाभासध्वनिर्यथा-'स्तुमः कं वामाक्षि क्षणमपि विना यं न रमसे विलेभे कः प्राणान्रणमखमुखे यं मृगयसे / सुलग्ने को जातः शशिमुखि यमालिजसि बलात्तपःश्रीः कस्यैषा मदननगरि ध्यायसि तु यम् // ' अत्रानेककामुकविषयोऽभिलाष इति रसाभासः / भावाभासध्वनिर्यथा-'राकासुधाकरमुखी तरलायताक्षी सा स्मेरयौवनतरङ्गितविभ्रमाङ्गी। तत्किं करोमि विदधे कथमत्र मैत्री तत्स्वीकृतिव्यतिकरे क इवाभ्युपायः // ' अत्रानौचित्यप्रवृत्ता चिन्तेति भावाभासः। भावप्रशमो यथा-'एकस्मिञ्शयने पराङ्मुखतया वीतोत्तरं ताम्यतोरन्योन्यं हृदयस्थितेऽप्यनुनये संरक्षतोगौरवम् / दंपत्योः शनकैरपाङ्गवलनामिश्रीभवच्चक्षुषोभग्नो मानकलिः सहासरभसव्यावृत्तकण्ठग्रहः // ' अत्रासूयायाः प्रशम इति भावप्रशमध्वनिः / वस्तुध्वनिरलंकारध्वनिश्चेति। तत्र शब्दशक्तिमूलो वस्तुध्वनिर्यथा-'निर्वाणवैरदहनाः प्रशमादरीणां नन्दन्तु पाण्डुतनयाः सह माधवेन / रक 20 स०