________________ काव्यमाला। तदुत्पत्त्यभावादविचारिताभिधानम् / तदेतत्कुशाग्रधिषणैः क्षोदनीयमतिगहनगहनमिति नेह प्रतन्यते / / __ अस्ति तावद्यङ्ग्यनिष्ठो व्यञ्जनव्यापारः / तत्र व्यङ्ग्यस्य प्राधान्यापाघान्याभ्यां ध्वनिगुणीभूतव्यङ्ग्याख्यौ द्वौ काव्यभेदौ / व्यङ्ग्यस्यास्फुटत्वेऽलंकारवत्त्वेन चित्राख्यः काव्यभेदस्तृतीयः / तत्रोत्तमो ध्वनिः / तस्य लक्षणाभिधामूलत्वेनाविवक्षितवाच्यविवक्षितान्यपरवाच्याख्यौ द्वौ भेदौ। आयोऽप्यर्थान्तरसंक्रमितवाच्यात्यन्ततिरस्कृतवाच्यत्वेन द्विविधः / द्वितीयोऽप्यसंलक्ष्यक्रमसंलक्ष्यक्रमव्यङ्ग्यतया द्विविधः / लक्षणमूलशब्द एतदिति / वाच्यस्य प्रतीयमानेन तादात्म्यतदुत्पत्त्यभावादि नेह प्रतन्यत इति व्यक्तिविवेकविचारे हि मयैवैतद्वितत्य निर्णीतमिति भावः / तदित्यं परपरिकल्पितसमारोपापसारप्रत्याख्यानेन प्राप्तप्रतिष्ठानो ध्वनिरित्याह-अस्तीत्यादि / तावच्छब्दो विप्रतिपत्त्यभावद्योतकः / अस्यैव भेदनिर्देशं कर्तुमाहतत्रेत्यादि / व्यङ्ग्यनिष्ठे व्यञ्जनव्यापारे सत्यपीत्यर्थः। प्राधान्याप्राधान्येति / यदुक्तम्-'तत्परावेव शब्दार्थों यत्र व्यङ्ग्यं प्रति स्थितौ। ध्वनेः स एव विषयो मन्तव्यः संकरोज्झितः // ' इति / तथा-'प्रकारोऽन्यो गुणीभूतव्यङ्ग्यः काव्यस्य दृश्यते। तत्र व्यङ्ग्यान्वये वाच्यचारुत्वं स्यात्प्रकर्षवत् // ' इति / अस्फुटत्व इति / व्यङ्ग्यस्याविवक्षितत्वे सतीत्यर्थः / यदुक्तम्-रसभावादिविषयविवक्षाविरहे सति / अलंकारनिबन्धो यः स चित्रविषयो मतः // ' इति / तत्रेति त्रयनिर्धारणे / तस्येत्युत्तमस्य ध्वनेः / आद्य इत्यविवक्षितवाच्यः / न केवलं ध्वनिर्द्विविधः यावत्तत्प्रभेदोऽप्ययं द्विविध इत्यपिशब्दार्थः / यदुक्तम्'अर्थान्तरे संक्रमितमत्यन्तं वा तिरस्कृतम् / अविवक्षितवाच्यस्य ध्वनेर्वाच्यं द्विधा मतम् // ' इति / द्वितीय इति विवक्षितान्यपरवाच्यः / यदुक्तम्-'असंलक्ष्यक्रमोद्दयोतः क्रमेण द्योतितः परः। विवक्षिताभिधेयस्य ध्वनेरात्मा द्विधा मंतः॥' इति / अत्रैव वस्तुरसालंकाराणां ध्वन्यमानत्वं दर्शयितुमाह-लक्षणेत्यादि / लक्षणामूल इत्यविवक्षितवाच्यः / शब्दशक्तिमूल इति न पुनरर्थशक्तिमूलः / यद्यपि शब्दशक्तिमूलेऽर्थशक्तिरप्यस्ति तथापि तत्र तस्याः सहकारितया व्यवस्था