________________ अलंकारसर्वस्वम् / 15 यत्तु व्यक्तिविवेककारो वाच्यस्य प्रतीयमानं प्रति लिनितया व्यजनस्यानुमानान्तर्भावमाख्यत् तद्वाच्यस्य प्रतीयमानेन सह तादात्म्य 'व्यञ्जकसंवन्धनिबन्धनतया ध्वनेः / वाच्यवाचकचारुत्वहेत्वन्तःपतिता कुतः // ' इति / लक्षणायामप्यस्यान्तर्भावो न युक्तः / तदसद्भावेऽस्य सद्भावात्तत्सद्भावे चास्यासद्भावात् / यदुक्तम्-‘अतिव्याप्तेरथाव्याप्तेर्न चासौ लक्ष्यते तया' इति / नाप्यस्यालक्षणीयत्वं युक्तम् / 'यत्रार्थः शब्दो वा तमर्थमुपसर्जनीकृतवार्थौ / व्यतः काव्यविशेषः स ध्वनिरिति सूरिभिः कथितः // ' इति / तदित्थमेतद्विप्रतिपत्तित्रयस्याप्रतिष्ठानमुपपादितम् / इदानीमन्योऽपि यः कश्चिद्विप्रतिपत्तिप्रकारः कैश्चिदुर सोऽपि नोपपद्यत इत्याह-यत्त्वित्यादि / ध्वनिकारानन्तरभावी व्यक्तिविवेककार इति / तन्मतमिह पश्चान्निर्दिष्टं यद्यपि वक्रोक्तिजीवितहृदयदर्पणकारावपि ध्वनिकारानन्तरभाविनावेव / तथापि तौ चिरन्तरमतानुयायिनावेवेति तन्मतं पूर्वमेवोद्दिष्टम् / अनेन पुनरेतत्वोपज्ञमेवोक्तम् / अनुमानान्तर्भावमिति / अनुमानरूपत्वमेवेत्यर्थः / आख्यदिति / यदाह-'वाच्यस्तदनुमितो वा यत्रार्थोऽर्थान्तरं प्रकाशयति। संबन्धतः कुतश्चित्सा काव्यानुमितिरित्युक्ता' // इति / अविचारिताभिधानमिति / इह लिङ्गलिङ्गिनोस्तादात्म्यतदुत्पत्तिभ्यामेव तावत्प्रतिवन्धो निश्चीयते / तन्निश्चयेनैव च साध्यसिद्धिः / अन्यथा हि साध्यसिद्धिर्न स्याव्यभिचारात् / तत्र तादात्म्यं यथा कृतकत्वानित्यत्वयोः / तदुत्पत्तिर्यथा वह्निधूमयोः / वाच्यप्रतीयमानयोः पुनस्तादात्म्यतदुत्पत्ती न स्तः। तथाहि-निःशेषच्युतचन्दनं स्तनतटं निर्मुष्टरागोऽधरो नेत्रे दूरमनञ्जने पुलकिता तन्वी तथेयं तनुः / मिथ्यावादिनि दूति बान्धवजनस्याज्ञातपीडागमा वापी स्नातुमितो गतासि न पुनस्तस्याधमस्यान्तिकम् // ' इत्यत्र विधिना निषेधो निषेधेन वा विधिः प्रतीयते / न तस्य वाच्येन सह तादात्म्यम् / विरुद्धत्वात् / नह्यभावो भावात्मा भावोऽप्यभावात्मा। नापि तदुत्पत्तिः। अभावस्य जन्यजनकत्वानुपपत्तेः नापि निःशेषच्युतचन्दनादीनां विशेषणानां तदन्तिकगमनानुमापकत्वं युक्तम् / तेषां स्नानादावपि सद्भावादनैकान्तिकत्वात् / एतच्च ध्वनिकारेणादूषितत्वाइन्थकृता स्वकण्ठेन दूषितम् / अत एवानेनान्या विप्रतिपत्तयो न दूषिताः / 1. 'तद्भावे चास्य चासंभवात्' क. 2. 'निषेधेनैव वा विधिर्यः' ख.