________________ 14 . काव्यमाला। परिग्रहसाम्राज्यम् / रसादयस्तु जीवितभूता नालंकारत्वेन वाच्याः / अलंकाराणामुपस्कारकत्वाद्रसादीनां च प्राधान्येनोपस्कार्यत्वात् / तस्मा. यद्य एव वाक्यार्थीभूतः काव्यजीवितमित्येष एव पक्षो वाक्यार्थविदां सहृदयानामावर्जकः / व्यञ्जनव्यापारस्य सर्वैरनपहृतत्वात्तदाश्रयेण च पंक्षान्तरस्याप्रतिष्ठानात् / तद्धर्मत्वात् / अलंकाराणामपि 'उपकुर्वन्ति तं सन्तं येऽङ्गद्वारेण जातुचित् / हारादिवदलंकारास्तेऽनुप्रासोपमादयः / / ' इत्यादिनीत्या शब्दार्थलक्षणाङ्गातिशयद्वारेण तदुपस्कारकत्वात् / अलंकाराणां च रसादिरूपं व्यङ्ग्यमर्थमलंकुर्वतां मुख्यया वृत्त्यालंकारत्वम् / अलंकार्यसद्भावनिबन्धनत्वात्तस्य रसाद्यात्मन एव च व्यङ्ग्यस्यालंकार्यत्वेन प्रतिष्ठानात् / अत एव च यत्र स्फुटव्यङ्ग्यार्थरहितत्वं तत्र 'गुणवृत्त्या पुनस्तेषां वृत्तिः शब्दार्थयोर्मता' इत्यादिनीत्या शब्दार्थमात्रनिबन्धनत्वेनोक्तिवैचित्र्यमात्रपर्यवसितत्वादेषां गौणमलंकारत्वम् / यदभिप्रायेणैव च चित्राख्यकाव्यभेदप्रकारत्वमलंकाराणां निरूपयिष्यते। अत एवानुप्रासादयोऽलंकाराश्चित्रमित्याद्यन्यैरुक्तम् / स च प्रतीयमानोऽर्थो यद्यपि वस्त्वलंकाररसत्वेन त्रिविधस्तथापि तेन विना काव्यात्मत्वाभावान्मुख्यत्वेन रसस्यैवात्मत्वं युक्तम् / अतश्च वस्त्वलंकारयोर्यदलंकारंपक्षनिक्षिप्तत्वमन्यैरुक्तं तत्तावदास्ताम् , काव्यात्मनो रसस्य पुनरलंकारत्वमत्यन्तमेवावाच्यमित्याह-रसादय इत्यादि / आदिग्रहणाद्भावतदाभासादीनां ग्रहणम् / नवाच्या इति। वक्तुमयुक्ता एवेत्यर्थः / अलंकार्यस्यालंकारत्वानुपपत्तेः / तस्य चालंकारत्वकथनेऽलंकार्यान्तरं प्रसज्यते। तेन विनालंकाराणामनुपपत्तेः / एतदेवोपसंहरति-तस्मादित्यादिना / व्यङ्ग्य इति रसादिरूपः / तस्यैवोपक्रान्तत्वात् / वाक्यार्थीभूत इति / अवाक्यार्थीभूतस्तु रसादिरलंकारोऽपि स्यात् / यदुक्तम्-'प्रधानेऽन्यत्र वाक्यार्थे यत्राझं तु रसादयः। काव्ये तस्मिन्नलंकारो रसादिरिति मे मतिः // ' इति / एतच रसवदाद्यलंकारप्रस्ताव एव निर्णेष्यामः / इतिशब्दः प्रमेयपरिसमाप्तौ / / एतदेव युक्तमित्याह-एष एवेत्यादि / सर्वैरिति / अवाक्यार्थविद्भिरसहृदयप्रायैरित्यर्थः / पक्षान्तरस्येति / तत्र तावद्वाच्यवाचकमात्राश्रयिंणामलंकाराणां मध्ये व्यायव्यञ्जकभावसमाश्रयेण व्यवस्थितत्वादस्यान्तर्भावो न युक्तः। यदुक्तम्-व्यङ्ग्य