________________ अलंकारसर्वस्वम् / च वाक्यार्थत्वाभावाद्वाक्यार्थस्यैव च व्यङ्ग्यरूपस्य गुणालंकारोपस्कर्तव्यत्वेन प्राधान्याद्विश्रान्तिधामत्वादात्मत्वं सिद्धान्तितवान् / व्यापारस्य विषयमुखेन खरूपप्रतिलम्भात्तत्प्राधान्येन प्राधान्याखरूपेण विदितत्वाभावाद्विषयस्यैव समग्रभरसहिष्णुत्वम् / तस्माद्विषय एव व्यङ्ग्यनामा जीवितत्वेन वक्तव्यः। यस्य गुणालंकारकृतचारुत्व वयवत्वान्न स्वरूपेणोपलभ्यत इति विचारपदवीमेव खयमुपारो नोत्सहत इति कथं नाम तस्या वाक्यार्थत्वं स्यादिति भावः। यद्वक्ष्यति-'व्यापारस्य विषयमुखेण स्वरूपप्रतिलम्भात्तत्प्राधान्येन प्राधान्यात्वरूपेण विचार्य(विदित)त्वाभावाद्विषयस्यैव समग्रभरसहिष्णुत्वम्' इति / उपस्कर्तव्यत्वेनेति / तत्परतयावस्थानेनेत्यर्थः / यदुक्तम्-'वाच्यवाचकचारुत्वहेतूनां विविधात्मनाम् / रसादिपरता यत्र स ध्वनेविषयो मतः // ' इति / अत एव विश्रान्तिधामत्वादित्युक्तम् / आत्मत्वमिति / सारभूतत्वमित्यर्थः / अतश्च तेन विना काव्यमेव न स्यादिति तात्पर्यम् / नहि निर्जीवं शरीरं वाप्युपयुक्तम् / ननु यद्येवं तर्हि 'गङ्गायां घोषः' इत्यत्रापि व्यङ्ग्यस्य सद्भावात्काव्यत्वं प्रसज्यते / नैतत् / इह यद्वदात्मनो व्यापकत्वाच्छरीरे घटादौ (च) वर्तमानत्वेऽपि करणादिविशिष्टे शरीर एव जीवव्यवहारो न घटादौ तद्वदस्यापि विविधगुणालंकारौचित्यचारुशब्दार्थशरीरगतत्वेनैवात्मत्वव्यवहारो ना. न्यत्रेति न कश्चिद्दोषः। ननु च सर्वत्र क्रियाया एव प्राधान्यं प्रसिद्धमिह पुनर्विषयस्योक्तमिति किमेतदित्याशङ्कयाह-व्यापारस्येत्यादि / विषयमुखेनेति / यथा ह्योदनादेविक्लित्त्यादिमुखेन पाकादेः क्रियायाः स्वरूपोपलम्भः / तत्प्राधान्येनेति / विषयप्रधानत्वेनेत्यर्थः / तेन व्यापारस्य प्राधान्यमुपचरितमिति भावः / स्वरूपेणेति / खरूपं हि तस्य साध्यमानत्वाद्विचारयितुमशक्यम् / सिद्धस्य हि विचारो भवतीति भावः / एवकारो व्यञ्जनव्यापारव्यवच्छेदकः / समग्रेति / समग्रस्य भरस्यात्मेति व्यवहारादेः सहनशीलत्वमित्यर्थः / एतदेवोपसंहरति-तस्मादित्यादिना / यस्येति / व्यङ्ग्यनाम्नो रसाद्यात्मनो विषयस्य / गुणालंकारकृतचारुत्वेति / गुणानां 'ये रसस्याङ्गिनो धर्माः शौर्यादय इवात्मनः / उत्कर्षहेतवस्ते स्युरचलस्थितयो गुणाः // ' इत्यादिनीत्या साक्षादेव 1. 'कृतं' क, 2. 'काव्यं काव्यमेव न भवतीति तात्पर्यम्' क.