________________ 12 काव्यमाला। द्योतनादिशब्दाभिधेयस्य व्यञ्जनव्यापारस्यावश्याभ्युपगम्यत्वाव्यापारस्य भिधया जलप्रवाहमात्रं गृहनिकुरम्बमात्रं च प्रतीतमित्येका कक्ष्या / एतत्प्रतिपाद्यान्यप्रतिपादनायाप्यभिधा न समर्था / 'विशेष्यं नाभिधा गच्छेत्क्षीणशक्तिविशेषणे' इत्याद्युक्तयुक्त्या तस्या विरम्य व्यापारासंभवात् / 'सामान्यान्यन्यथासिद्धेर्विशेषं गमयन्ति हि' इति न्यायात्तात्पर्यशक्त्या सामान्यान्याधाराधेयभावेनावस्थितं विशिष्टं गङ्गाघोषाद्यागूरयन्तीति तात्पर्येण परस्परान्वितत्वमात्रमेव प्रतीयत इति द्वितीया। जलप्रवाहस्य च घोषाधिकरणत्वमयुक्तमिति प्रमाणान्तरबाधितः सैन्गङ्गाशब्दस्तदधिकरणयोग्यतटं लक्षयतीति तृतीया / तत्र तावत् , 'मुख्यार्थबाधे तद्योगे रूढितोऽथ प्रयोजनात् / अन्योऽर्थो लक्ष्यते यत्सा लक्षणारोपिता क्रिया // ' इति नीत्या लक्षणा त्रितयसंनिधावेव भवति / तत्र मुख्यार्थबाधा तावत्प्रत्यक्षादिप्रमाणान्तरमूला। यश्च सामीप्यादिसंबन्धः स च प्रमाणान्तरावगम्य एव। यत्पुनरिदं घोषस्य शैत्यपावनत्वादिलक्षणं प्रयोजनं प्रतीयते तच्छब्दान्तरानुकं प्रमाणान्तराप्रतिपनं च कुत आगतम् / न तावत्प्रत्यक्षादेतत्प्रतीतिः। अस्मादेव शब्दादवगमासिद्धेः / शब्दार्थे च तस्याप्रवृत्तेः / नाप्यनुमानात् / सामीप्येऽपि शैत्यपावनत्वादेरसंभवादनैकान्तिकत्वात् / न स्मृतिः / तदनुभवाभावात् / सत्यामपि वा तस्यां नियतस्मरणं न स्यात् / अस्मादेव च शब्दादेतदेव बुध्यत इति को हेतुः। तस्मादस्यैव शब्दस्यैष व्यापारोऽभ्युपगन्तव्यः / निर्व्यापारस्यार्थप्रतीतिकारित्वाभावात् / स तावन्नाभिधात्मा / समयाभावात् / न तात्पर्यात्मा। तस्यान्वयप्रतीतावेव परिक्षयात् / न लक्षणात्मा। मुख्यार्थबाधाद्यभावात् / तस्मादभिधातात्पर्यलक्षणाव्यतिरिक्तश्चतुर्थकक्ष्यानिक्षिप्तो व्यङ्ग्यनिष्ठो व्यञ्जनाव्यापारोऽभिहितान्वयवादिनावश्याभ्युपगन्तव्यः / अन्विताभिधानवादिनापि यत्परः शब्दः स शब्दार्थ इति शरवदभिधाव्यापारमेव दीर्घदीर्घमिच्छतापि नैमित्तिकार्थानुसारेण निमित्तानि कल्प्यन्त इति निमित्तपरिकल्पनेऽपि समग्रैवेयं प्रक्रियानुसरणीचैवेत्युभयथापि सिद्ध एव व्यञ्जनव्यापारः / एतच्च गहनगहनमिति मनागेव सिद्धरसन्यायेनेहोक्तम्। आदिशब्दात्प्रत्यायनावगमनादीनामपि ग्रहणम् / अवश्येति / तेन विना व्यङ्ग्यस्यार्थस्यासंग्रहणात् / व्यापारस्येति / व्यञ्जनात्मिकायाःक्रियाया इत्यर्थः / सा खलु साध्यमानत्वेन पूर्वापरीभूता 1. 'प्रतीतमेवेत्येका' क. 2. स च गङ्गाशब्दार्थादधिकरण' ख. 3. शाब्देऽर्थे क.