________________ अलंकारसर्वस्वम् / ब्रुवता न्यग्भावितशब्दार्थखरूपस्य व्यापारस्यैव प्राधान्यमुक्तम् / तत्राप्यमिधाभावकत्वलक्षणव्यापारद्वयोत्तीणों रसचर्वणात्मा भोगापरपर्यायो व्यापारः प्राधान्येन विश्रान्तिस्थानतयाङ्गीकृतः।। ध्वनिकारः पुनरभिघातात्पर्यलक्षणाख्यव्यापारत्रयोत्तीर्णस्य ध्वनन: नमेतयोः / द्वयोर्गुणत्वे व्यापारप्राधान्ये काव्यधीर्भवेत् / ' इति / तत्रापीति / कविकर्मरूपस्य व्यापारस्य प्राधान्ये सत्यपीत्यर्थः / 'अभिधा भावना चान्या तद्भोगीकृतिरेव च' इति काव्यं तावत्र्यंशं तेनोक्तम् / तत्रापि 'अभिधाधामतां याते शब्दार्थालंकृती ततः / भावनाभाव्य एषोऽपि शृङ्गारादिगणो मतः // ' इत्यंशद्वयस्य विषयं प्रतिपाद्य 'तद्भोगीकृतिरूपेण व्याप्यते सिद्धिमान्नरः' इति तृतीयोऽशः सहृदयगतस्तदंशद्वयचर्वणात्मा 'दृश्यमानाथवा मोक्षे यात्यङ्गत्वमियं स्फुटम्' इत्युक्त्या परब्रह्मास्वादसविधवर्ती विश्रान्तिधामतयाभ्युपगतः / तदेवं यद्यपि 'तात्पर्याशक्तिरभिधालक्षणानुमिती द्विधा / अर्थापत्तिः क्वचित्तन्त्रं समासोक्त्याद्यलंकृतिः // रसस्य कार्यता भोगो व्यापारान्तरबाधनम् / द्वादशेत्थं ध्वनेरस्य स्थिता विप्रतिपत्तयः // ' इति नीत्या बहवो विप्रतिपत्तिप्रकाराः संभवन्ति, तथापि 'काव्यस्यात्मा ध्वनिरिति बुधैर्यः समाम्नातपूर्वस्तस्याभावं जगदुरपरे भाक्तमाहुस्तमन्ये / केचिद्वाचां स्थितमविषये तत्त्वमूचुस्तदीयं' इत्युक्तनीत्यैव ध्वनेर्विप्रतिपत्तिप्रकारत्रयमिह प्राधान्येनोक्तम् / एवमिदानीमेतद्विप्रतिपत्तिप्रकारत्रयं निराकुर्वन्ध्वनेरेव काव्यात्मत्वं साधयति-ध्वनिकार इत्यादिना / सैमयापेक्षाविगमशक्तिरभिधा / सामान्यानां परस्परान्वितत्वेन विशेषार्थावबोधनशक्तिस्तात्पर्यम् / मुख्यार्थबाधादिसहकार्यपेक्षार्थप्रतिभासनशक्तिर्लक्षणा। एतद्यापारत्रयादुत्तीर्णस्य / तदतिरिक्तस्येत्यर्थः / तथा च 'गङ्गायां घोषः' इत्यत्र गङ्गाशन्दो घोषशब्दश्च सामान्यात्मके जलप्रवाहे गृहनिकुरम्बे च संकेतितौ / सामान्य एवोद्योगात् / विशेषस्य हि संकेतकरणे आनन्त्यं व्यभिचारश्च स्यात् / ततश्चा - 1. 'इत्येतट्टयस्य' ख. २.ख-पुस्तके 'तेन ब्रूमः सहृदयमनःप्रीतये तत्स्वरूपम्' इति तुरीयपादोऽपि गृहीतः. 3. 'समयादवगमन' ख. 4 'गतिः' ख. 5. 'पादन' क.