________________ काव्यमाला। सत्यपि त्रिभेदे प्रतीयमाने व्यापाररूपा भणितिरेव कविसंरम्भगोचरः। उपचारवक्रतादिभिः समस्तो ध्वनिप्रपञ्चः खीकृतः। केवलमुक्तिवैचित्र्य. जीवितं काव्यं, न व्यङ्गयार्थजीवितमिति तदीयं दर्शनं व्यवस्थितम् / भट्टनायकेन तु व्यङ्ग्यव्यापारस्य प्रौढोक्त्याभ्युपगतस्य काव्यांशत्वं इति / तेनोक्ता इति शेषः / एवकारश्चिरंतनोक्तध्वनिप्रकारविशेषव्यवच्छेदकः / . सत्यपीति / सदपि प्रतीयमानमनादृत्येत्यर्थः / व्यापाररूपेति वक्रवभावेत्यर्थः। भणितिरित्युक्तिः / कवीति / तत्रैव कविः संरब्ध इत्यर्थः। तत्संरम्भमन्तरेण हि वक्रोक्तिरेव न स्यात् / ननु च प्रतीयमानस्यानादरः किमभावमुखेनान्यथा वा कृत इत्याशङ्कयाह-उपचारेत्यादि / उपचारवक्रतादीनामेव मध्ये ध्वनिरन्तभूत इति तात्पर्यार्थः / यदाह-'यत्र दूरान्तरेऽन्यस्मात्सामान्यमुपचर्यते / लेशेनापि भवेत्कर्तुं किंचिदुद्रिक्तवृत्तिता // यन्मूला सरसोल्लेखा रूपकादिरलंकृतिः / उपचारप्रधानासौ वक्रता काचिदिष्यते // इति / एतामेवोदाजहार च-'गैअणं च मत्तमेहं धारालुलिअजुणाई अ वणाई। निरहंकारमिअङ्को हरन्ति नीलाओं अणिसाओ // ' अत्र मदनिरहंकारत्वे औपचारिके इत्युपचारवक्रतादीनामपि ग्रहणम् / एवं सर्वोऽपि ध्वनिप्रपञ्चो वक्रोक्तिभिरेव स्वीकृतः सन्स्थित एव / यदि परं तस्य प्राधान्यमेव नास्तीत्याह-केवलमित्यादि। तदीयमिति / वक्रोक्तिजीवितकारसंबन्धीत्यर्थः / तदित्थं लक्षणामूलवक्रोक्तिमध्यान्तर्भावाद्धनेरेव तत्त्वं प्रतिपादितम् / कैश्चिदप्यस्यवागविषयत्वादलक्षणीयत्वमुकमित्याहू-भट्टनायके. त्यादि प्रौढोक्त्येति / न पुनर्लक्षणकरणेन / अत एवोक्तेः प्रौढत्वं यल्लक्षयितुमशक्यं तस्याप्यभ्युपगमः काव्यांशत्वमिति न पुनः काव्यात्मत्वम् / यदाह'ध्वनिर्नामापरो योऽपि व्यापारो व्यञ्जनात्मकः / तस्य सिद्धेऽपि भेदे स्यात्काव्यांशत्वं न रूपिता // ' इति / व्यापारस्येति कविकर्मणः / अन्यथा शब्दप्रधानेभ्यो वेदादिभ्योऽर्थप्रधानेभ्यश्चेतिहासादिभ्यः काव्यस्य वैलक्षण्यं न स्यात् / यदुक्तम्'शब्दप्राधान्यमाश्रित्य तत्र शास्त्रं पृथग्विदुः / अर्थतत्त्वेन युक्तं तु वदन्त्याख्या". 1. 'किंचित्कर्तु' क. 2. 'गगनं च मत्तमेषं धाराललितार्जुनानि च वनानि / निरहंकारमृगाङ्का हरन्ति नीलाश्च निशाः // ' इति. च्छाया. 3 'आत्य' ख.....