________________ अलंकारसर्वस्वम् / कश्चिवनिभेदोऽलंकारतयैवोक्तः / केवलं गुणविशिष्टपदरचनात्मिका रीतिः काव्यात्मकत्वेनोक्ता। उद्भटादिभिस्तु गुणालंकाराणां प्रायशः साम्यमेव सूचितम् / वि. षयमात्रेण भेदप्रतिपादनात् / संघटनाधर्मत्वेन चेष्टेः / तदेवमलंकारा एव काव्ये प्रधानमिति प्राच्यानां मतम् / वक्रोक्तिजीवितकारः पुनर्वैदग्ध्यभङ्गीभणितिखभावां बहुविधां वक्रोक्तिमेव प्राधान्यात्काव्यजीवितमुक्तवान् / व्यापारस्य प्राधान्य च काव्यस्य प्रतिपेदे / अभिधानप्रकारविशेषा एव चालंकाराः / एतदेवोदाजहार च-'उन्मिमील कमलं सरसीनां कैरवं च निमिमील मुहूर्तम्' इति / कश्चिवनिमेद इति / 'अविवक्षितवाच्यादिः' / केवलमिति / यदि परमित्यर्थः / गणेति / यदाह-'विशिष्टा पदरचना रीतिः' इति / काव्यात्मकत्वेनेति / यदाह--'रीतिरात्मा काव्यस्य' इति / तदेवं विशिष्टपदरचनात्मिकायाः काव्यात्मत्वेनाभ्युपगताया रीतेः 'तदतिशयहेतवस्त्वलंकाराः' इत्याधुक्त्यान्तर्भावितध्वनयोऽलंकारा उपस्कारका इत्येतन्मतम् / अन्यैः पुनरेतदपि प्रत्युक्तामिलाह-उद्भटादिभिरित्यादिना ! प्रायश इति / बाहुल्येनेत्यर्थः / विषयमात्रेणेति / भिन्नकक्ष्याणां ह्युपस्कार्योपस्कारकत्वस्यानुपपत्तेः। तथात्वे चालंकाराणामपि गुणोपस्कायेत्वं प्रसज्यते / समानन्यायत्वात् / तद्गुणालंकाराणां तुल्यत्ववादिन एवौद्भटाः / इत्थमनेन वांच्याश्रयाणामलंकाराणां मध्य एव ध्वनेरन्तर्भावादभिधाव्यापारगोचर एव ध्वनिन पुनस्तद्यतिरिक्तः कश्चिद्धनिर्नामेति चिरंतनानां मतमित्युक्तम् / इदानीं यदप्यन्यैरस्य भक्त्यन्तर्भूतत्वमुक्तं तदपि दर्शयितुमाह-'वक्रोक्तीत्यादि / वैदग्ध्येत्यनेन वक्रोक्तेः खरूपमुक्तम् / यदाह'वक्रोक्तिरेव वैदग्ध्यभङ्गीभणितिरुच्यते' इति / एवकारोऽन्यस्य काव्यजीवितत्वव्यवच्छेदकः। काव्यजीवितमिति काव्यस्यानुप्राणकम् / तां विना काव्यमेव न स्यादित्यर्थः / यदाह-विचित्रो यत्र वक्रोक्तिवैचित्र्यं जीवितायते' इति / व्यापारस्येति कविप्रतिभोल्लिखितस्य कर्मणः। कविप्रतिभानिर्वर्तितत्वमन्तरेण हि वक्रोक्तिरेव न स्यादिति कस्य जीवितत्वं घटत इति तदनुषकमेवान्वास्यात्र प्राधान्यं विवक्षितम् / अतश्च द्वयोः प्राधान्यस्य दुर्योजत्वमत्र नाशङ्कनीयम् / अलंकारा