________________ . काव्यमाला। तीयमाना कथिता / रसवप्रेयःप्रभृतौ तु रसभावादिर्वाच्यशोभाहेतुत्वेनोक्तः / तदित्यं द्विविधमपि प्रतीयमानमलंकारतया ख्यापितमेव / ___ वामनेन तु सादृश्यनिबन्धनाया लक्षणाया वक्रोक्त्यलंकारत्वं ब्रुवता अमायन्ती / दिअहं अणण्णअम्मा अङ्गं तणुअंपि तणुएइ // ' इति / तदित्थमलंकारोऽपि प्रतीयमानो वाच्यशोभाहेतुत्वेनोक्तः / अधुना रसस्यापि वाच्योपस्कारकत्वं दर्शयितुमाह-रसवदित्यादि / प्रभृतिशब्दादूर्जस्व्यादयः। आदिशब्दाच तदाभासादयः / तत्र रसवदलंकारो यथा-'कृच्छ्रेणोरुयुगं व्यतीत्य सुचिरं भ्रान्त्वा नितम्बस्थले मध्येऽस्यास्त्रिवलीतरङ्गविषमे निस्पन्दतामागता। मदृष्टिस्तृषितेव संप्रति शनैरारुह्य तुङ्गौ स्तनौ साकाझं मुहुरीक्षते जललवप्रस्यन्दिनी लोचने // ' अत्र वत्सराजस्य परस्परास्थाबन्धरूपो रत्याख्यः स्थायिभावो विभावानुभावव्यभिचारिसंयोगाद्रसीभूतः सन्वाच्योपस्कारकः / तत्संवलितत्वेन वाच्यस्य सचमत्कारं प्रतिपत्तेः / प्रेयोलंकारो यथा-'तिष्ठेत्कोपवशात्प्रभावपिहिता दीर्घ न सा कुप्यति खर्गायोत्पतिता भवेन्मयि पुनर्भावार्द्रमस्या मनः। तां हर्तुं विबुधद्विषोऽपि न च मे शक्ताः पुरोवर्तिनी सा चात्यन्तमगोचरं नयनयोर्यातेति कोऽयं विधिः // ' अत्र वितर्काख्यो व्यभिचारिभावो वाच्यशोभाधायक एव / ऊर्जस्व्यलंकारो यथा-'दृग्लीलासु सकौतुकं यदि मनस्तन्मे दृशां विंशतिनिःसंधौ परिरम्भणे रतिरथो दोर्मण्डली दृश्यताम् / प्रीतिश्चेत्परिचुम्बने दशमुखी वैदेहि सजा पुरः पौलस्त्यस्य च राघवस्य च महत्पश्योपचारान्तरम् // ' अत्र सीतां प्रति रावणस्य रतिरनौचित्येन प्रवृत्तेति रसाभासो वाच्योपस्कारकः / अन्यत्तु खयमभ्यूस्थम् / एतदेवोपसंहरति-तदित्थमित्यादिना / त्रिविधमिति / पर्यायोकादौ वस्तु, रूपकादावलंकारः, रसवदादौ रसः। तदेवं चिरंतनैः प्रतीयमानस्थालंकारान्तर्भाव एव तावदुक्तः / तदुपस्कार्यः / पुनरात्मा कैश्चिदपि नाभ्युपगतः / वामनेन प्रतीयमानस्यालंकारान्तर्भावमभिदधतापि तदुपस्कार्य आत्मा कश्चिदुक्त इत्याह-वामनेनेत्यादि / तुशब्दः पूर्वेभ्यो व्यतिरेकद्योतकः / आत्मनोऽपि प्रतिपादकत्वात् / ब्रुवतेति / यदाह-'सादृश्यालक्षणा वक्रोक्तिः' इति / ". 1. 'विभावादीनां पर्ययेन तत्संवलितत्वेन' ख. 2. 'दायकः' क. 3. 'राघवस्य' ख.