________________ अलंकारसर्वस्वम् / तादावुपमाद्यलंकारो वाच्योपस्कारकत्वेनोक्तः / उत्प्रेक्षा तु खयमेव प्र त्वेन प्रतिपादितम् / इदानीमलंकारस्यापि प्रतीयमानस्य वाच्योपस्कारकत्वं प्रतिपादयति-रूपकेत्यादिना / तत्र रूपकं यथा-'भीमभ्रूकुटिपन्नगीफणमणिः कामस्य चण्डं चिताकुण्डं कुण्डलितेन्दुनालवलयप्रभ्रंशिरक्तोत्पलम् / घ्राणस्फाटिकमल्लिकापरिचिते भालाग्रशालाजिरे दीपा दीपशिखा शिवस्य नयनं कार्शानवं पातु नः // ' अत्र नयनादीनां मणिप्रभृतीनां चोपमा वाच्योपस्कारायावगम्यते / तां विना सादृश्याप्रतिपत्तेः। दीपकं यथा-'पाउअबंधं पढिडं बंधेउं तह अ कुजकुसुमाई / पोढमहिलं अ रमिउं विरलच्चिअ के वि जाणन्ति // ' अत्र प्राकृ तबन्धपाठादेरुपमा वाच्योपस्कारायावगम्यते / प्रकृतस्य प्रौढमहिलारमणादेः सादृश्योपादानायैवोभयोरुपनिबन्धनात् / अपह्नुतिर्यथा-'अवाप्तः प्रागल्भ्यं परिणतरुचः शैलतनये कलङ्को नैवायं विलसति शशाङ्कस्य वपुषि। अमुष्येयं मन्ये विगलदमृतस्यन्दशिशिरे रतिश्रान्ता शेते रजनिरमणी गाढमुरसि // ' अत्र कलकस्य रजनिसादृश्यप्रतीतेरुपमा वाच्योपस्कारायावगम्यत एव / तुल्ययोगिता यथा-'द्विगुणितादुपधानभुजाच्छिरः पुलकितादुरसः स्तनमण्डलम् / अधरमर्धसमर्पितमाननाद्वय घटयन्त कथंचन योषितः॥' अत्र भुजादीनां सादृश्यावगमादुपमा वाच्योपस्कारायावगम्यते / तुल्ययोगितादावित्यादिशब्दान्निदर्शनादेग्रहणम् / उपमादीत्यादिशब्दादुपमेयोपमादीनाम् / तत्तु यथा-'प्रवातनीलोत्पलनिर्विशेषमधीरविप्रेक्षितमायताक्ष्याः / तया गृहीतं नु मृगाङ्गनाभ्यस्ततो गृहीतं नु मृगाङ्गनाभिः // ' अत्र वाच्याया निदर्शनाया उपस्कारकत्वेनोपमेयोपमा गम्यते / तामन्तरेणासंभवद्वस्तुसंबन्धत्वेन वाच्यस्याविश्रान्तेः / अतश्चात्रालंकारो गम्यमानः स्थितो न वस्तुमात्रम् / तेन पूर्वत्र यदादिग्रहणं सफलयितुमन्यैरेतदुदाहृतं तदयुक्तमेव / तत्र वस्तुमात्रस्य वाच्योपस्कारकत्वेन प्रतिपिपादयिषितत्वात् / वाच्योपस्कारकत्वेनेत्युत्तरत्रापि योजनीयम् / तेन वाच्योपस्कारकत्वेनोत्प्रेक्षा कथितेति समन्वयः। सा तु-'महिलासहस्सभरिए तुय हिअए सुहअ सा १..मल्लिका दीपाधारदण्डः. 2. 'प्राकृतबन्धं पठितुं बर्द्ध तथा च कुब्जकुसुमानि / प्रौढमहिलां च रन्तुं विरला एव केऽपि जानन्ति // ' इति च्छाया. 3. 'महिलासहस्रमरिते तव हृदये सुभग सा अमान्ती। दिवसमनन्यकर्मा अङ्गं तनुकमपि तनूकरोति // ' इति च्छाया.