________________ - काव्यमाला। - रुद्रटेन तु भावालंकारो द्विधैवोक्तः / रूपकपकापदीइतितुल्ययोगि एवं समासोक्तावपि नायकव्यवहारस्तदविनाभावित्वादेव. नायकत्वमाक्षिपतीत्यत्रापि लक्षणामूलत्वं नाशङ्कनीयम् / ग्रन्थकृता पुनरेतच्चिरंतनमतानुवादपरतयोक्तम् / अस्माभिस्तु प्रसङ्गाद्वस्तु पर्यालोचितमित्यलं बहुना / उपमेयोपमा यथा-'रजोभिः स्यन्दनोद्भूतैर्गजैश्च घनसंनिभैः / भुवस्तलमिव व्योम कुर्वन्व्योमेव भूतलम् // ' अत्र द्वयोः परस्परमुपमानोपमेयत्वं वाच्यं सत्वयमनुपपद्यमानमुपमान्तरविरहलक्षणे परत्र वस्त्वन्तरे खं समर्पयति / अनन्वयो यथा-'भवानिव भवानेव भवेद्यदि परं भव / स्वशक्तिव्यूहसंव्यूढत्रैलोक्यारम्भसंहृतिः // ' अत्रैकस्यैवोपमानोपमेयभावो वाच्यः सन्द्वितीयसब्रह्मचार्यभावे परत्र वस्त्वन्तरे खं समर्पयति / आदिशब्दः प्रकारे। तेनानिष्टविध्याभासाक्षेपादेर्ग्रहणम् / यथा'भवतु विदितं व्यर्थालापैरल प्रिय गम्यतां तनुरपि न ते दोषोऽस्माकं विधिस्तु पराङ्मुखः। तव यदि तथा रूढं प्रेम प्रपन्नमिमां दशां प्रकृतितरले का नो व्रीडा गते हतजीविते // ' अत्र कान्तप्रस्थानविधिर्वाच्यः सन्निषेद्धमेवोपक्रान्तस्य विधानानुपपत्तेः खयमविश्रान्तः स्वसमर्पणेन निषेधमाक्षिपति / एवं द्विविधया भझ्या गम्यमानं वस्तुमात्रं वाच्योपस्कारकमेवेत्युक्तम् / - एवमपि प्रतीयमानस्यार्थस्य विविक्तविषयान्तरोपालम्भादलंकारान्तर्भावो न सिध्यतीत्याशङ्कयाह-रुद्रटेनेत्यादि / द्विधेति / गुणीभूतागुणीभूतवस्तुविषयत्वेनेत्यर्थः / यदाह-'यस्य विकारः प्रभवन्नप्रतिबद्धन हेतुना येन। गमयति तदभिप्रायं तत्प्रतिबद्धं च भावोऽसौ // ग्रामतरुणं तरुण्या नववजुलमञ्जरीसनाथकरम् / पश्यन्त्या भवति मुहुर्नितरां मलिना मुखच्छाया // अभिधेयमभिदधानं तदेव तदसदृशगुणदोषम् / अर्थान्तरमवगमयति यद्वाक्यं सोऽपरो भावः // एकाकिनी यदबला तरुणी तथाहमस्मद्गृहे गृहपतिः स गतो विदेशम् / कं याचसे तदिह वासमियं वराकी श्वश्रूर्ममान्धबधिरा ननु मूढ पान्थ // ' इति / यद्वा द्विधेति पूर्ववदेव लक्षणाद्वयाश्रयेण व्याख्येयम् / तेनाये स्वसिद्धये पराक्षेपः, परत्र तु अपरार्थ खसमर्पणम् / यत्त्वत्रान्यैर्भावनिर्वेदादिभिरुपलक्षितो वाच्यत्रतीयमानत्वेन द्विविधो भावालंकारो व्याख्यातस्तदुत्सूत्रमेव / रुद्रटेन तथात्वेन तस्याप्रतिपादनात् / तत्रापि च वस्तुमात्रस्य वाच्योपस्कारकत्वाभिधानसमये वक्तुमुचितत्वात् / तदेवं गुणीभूतागुणीभूतत्वेन द्विप्रकारं वस्तु ताचद्वाच्योपस्कारक