________________ अलंकारसर्वस्वम् / वा इमेण भणिएण / भणिहिसि तहवि अहवा भणामि किं वा ण भणिओसि // ' अत्र वक्ष्यमाणविषयो भणननिषेधो वाच्यः सन्वक्तुमेवोपक्रान्तस्य निषेधानुपपत्तेः खयमविश्राम्यन्खात्मसमर्पणेन त्वां प्रति मरिष्यामि अथवा म्रिये यद्वा मृता यावदहमिति विधित्रयमर्थान्तरमाक्षिपति / यत्त्वत्रान्यैः ‘वाच्योऽर्थः खसिद्धयेऽर्थान्तरमाक्षिपति' इत्युक्तं तदयुक्तमेव / तथात्वे हि निषेध एव पर्यवसितः स्यान्न निषेधाभास इत्याक्षेपालंकार एव न स्यात् / आमुखावभासमानो हि निषेध आक्षेपलक्षणम् / न च विधिनिषेधयोर्विरोधात्साध्यसाधनभावो युक्तः। व्याजस्तुतिर्यथा-'इंहिणं पहुणोपहुणो पहुत्तणं किं चिरंतनपहूण / गुणदोसा दोसगुणा एहिँ कआ णहु कआ तेहिं // ' अत्र चिरंतनानां निन्दा वाच्या सती स्वयमनुपपद्यमाना स्तुतावात्मानमर्पयति / तद्गतत्वेन वस्तुदर्शिताया निन्दाया असंभवात् / एवमद्यतनानामपि स्तुतिर्निन्दायामात्मानमर्पयति / तस्या अपि विपरीततया तद्गतत्वेनासंभवात् / यत्पुनरत्रान्यैः खसिद्धये पराक्षेपो व्याख्यातस्तदुपेक्ष्यमेव / यतोऽत्र चिरंतनानां स्तुत्याक्षेपेण निषिद्धा निन्दैव प्रतीयेत, अद्यतनानां च निन्दाक्षेपेण निषिद्धा स्तुतिरेवेति वाक्यार्थविप्रलोप एव पर्यवसितः स्यादिति नैतद्युक्तम् / किं च लक्षणायामपि खसिद्धये पराक्षेपो न युक्तः / तथात्वे हि लक्षणायाः खरूपहानिः स्यात् / वाच्यलक्षणस्यैव खस्य सिद्धत्वान्मुख्यार्थबाधाभावात् / न चैकदा एकस्य बायः सिद्धिश्चेति वक्तुं युक्तम् / विप्रतिषिद्धं ह्येतत् / वाच्यस्यैव यद्यत्र सिद्धिस्तदभिधैव स्यान्न लक्षणा। तस्या हि मुख्यार्थबाध एव जीवितम् / 'कुन्ताः प्रविशन्ति' इत्यादौ च कुन्तानां स्वयं प्रवेष्टुमसंभवान्मुख्यार्थबाध एवेति परस्य कुन्तवद्रूपस्य लक्ष्यस्यैवार्थस्य प्राधान्यम् / अतश्च लक्षणायां बाधितः सन्मुख्योऽर्थः परत्र लक्ष्य एव खं समर्पयतीत्येव युक्तम् / ननु यद्येवं तत्पर्यायोक्तादौ वाच्यसिद्ध्यर्थं परस्य लक्ष्यस्याक्षेपः प्रतीयत इति तत्र किं प्रतिपत्तव्यम् / इदं प्रतिपत्तव्यम्--अत्र हि लक्षणाया एव नावकाशः / तत्र हि कथमहं स्यामिति वाच्यं सत्कार्य तदविनाभावात्परं कारणमाक्षिपतीत्याक्षेपेणैव सिद्धेस्तस्या अनुपयोगः / 'गौरनुबन्ध्यः' इत्यत्र यथा कथं मे श्रुतिचोदितमनुबन्धनं स्यादिति जात्या व्यक्त्यविनाभावाट्यक्तिराक्षिप्यते न तु लक्ष्यते तथैवात्रापि कार्यकारणयो यम् / 1. विधिरूपं' ख. 2. 'तदयुक्तमेव / अत्र सम्यनिषेधोः न निषेधाभासः' ख. 3. 'अधुना प्रभवः प्रभवः प्रभुत्वं किं चिरंतनप्रभूणाम् / गुणदोषा दोषगुणा एभिः कृता न खलु कृता तैः // ' इति च्छाया.