________________ काव्यमाला। प्रस्तुतप्रशंसासमासोक्त्याक्षेपव्याजस्तुत्युपमेयोपमानन्वयादौ वस्तुमात्रं.. गम्यमानं वाच्योपस्कारकत्वेन 'खसिद्धये पराक्षेपः परार्थ खसमर्पणम्' इति यथायोगं द्विविधया भङ्गया प्रतिपादितं तैः / / मिति / समग्रालंकारान्तर्भूतं न पुनस्तद्वयतिरिक्तमित्यर्थः / मन्यन्त इति / तथात्वेन मन्यन्ते न पुनस्तथा संभवतीत्यर्थः। नह्यभिमननमात्रेणैव भावानामन्यथाभावो भवतीति भावः / एतदेव दर्शयति-तथाहीत्यादिना / तैर्वस्तुमात्रं गम्यमानं वाच्योपस्कारकत्वेन प्रतिपादितमिति संबन्धः / वस्तुमात्रं न पुनरलंकारा रसश्च / स्वसिद्धय इति / 'कुन्ताः प्रविशन्ति' इत्यादौ कुन्तैरात्मनः प्रवेशसिद्ध्यर्थं खसंयोगिनः पुरुषा आक्षिप्यन्ते / तैर्विना तेषां प्रवेशासिद्धः / 'गझायां घोषः' इत्यादौ तु गङ्गाशब्दः परत्र तटे घोषाधिकरणतासिद्धये खात्मानमर्पयति / खयं तस्य घोषाधिकरणत्वासंभवात् / यथायोगमिति / क्वचिद्धि वाच्योऽर्थः खसिद्धये परं प्रतीयमानमर्थमाक्षिपति / कचिच्च खयमनुपपद्यमानः सन्प्रतीयमान एवार्थे खं समर्पयति / तेन यत्र यादृक्तत्र तादृगेव योज्यमित्यर्थः / तत्र पर्यायोक्तं यथा-'अधाक्षीनो लङ्कामयमयमुदन्वन्तमतरद्विशल्यां सौमित्रेरयमुपनिनायौषधिवनात् / इति स्मारं स्मारं त्वदरिवलभीचित्रलिखितं हनूमन्तं दन्तैर्दशति कुपितो राक्षसगणः // ' अत्र राक्षसगणवृत्तान्तो वाच्यः सन् स्वसिद्धये परं कारणरूपमरिपलायनाद्याक्षिपति / तत्पलायनाद्यन्तरेण राक्षसवृत्तान्तस्यासंगतेः / अप्रस्तुतप्रशंसा यथा-'प्राणा येन समर्पितास्तव बलायेन त्वमुत्थापितः स्कन्धे यस्य चिरं स्थितोऽसि विदधे यस्ते सपर्यामपि / तस्यास्य स्मितमात्रकेण जनयन्प्राणापहारक्रियां भ्रातः प्रत्युपकारिणां धुरि परं वेताललीलायसे // ' अत्र वेतालचरितमप्रस्तुतं प्रकरणादिवशेन खयमनुपपद्यमानं सत्प्रस्तुते कृतघ्नवृत्तान्ते खं समर्पयति / समासोक्तिर्यथा-'दन्तक्षतानि करजैश्च विपाटितानि प्रोद्भिन्नसान्द्रपुलके भवतः शरीरे / दत्तानि रक्तमनसा मृगराजवध्वा जातस्पृहैमुनिभिरप्यवलोकितानि // ' अत्र बोधिसत्त्वे नायकव्यवहारो न संभवतीति स्वसिद्ध्यर्थं नायकत्वमाक्षिपति / आक्षेपो यथा-किं भणिभो भण्णइ कित्ति अध कि .. 1. 'वाच्यसंस्कारकत्वेन' ख. 2. 'किं भणामो भण्यते किमिति अथ किं वा अनेन भणितेन / भणिष्यसे तथापि अथवा भणामि किं वा न भणितोऽसि // ' इति च्छाया.