________________ अलंकारसर्वस्वम् / इह हि तावद्भामहोद्भटप्रभृतयश्चिरंतनालंकारकाराः प्रतीयमानमर्थ चाच्योपस्कारकतयालंकारपक्षनिक्षिप्तं मन्यन्ते / तथाहि-पर्यायोक्ता रोति ‘इह हि तावद्भामह-' इत्यादिना। तदेतत्तावदास्ताम्। निजेति। परकीयाणां सूत्राणां तात्पर्यकथनानवबोधोऽपि स्यादिति भावः / तथा न कैश्चिदपि परैरीदंशि सूत्राणि कृतानीत्यपि ध्वनितम् / तात्पर्यमिति / संक्षिप्तार्थप्रकाशनमित्यर्थः / अन्यथा हि कथनमेषां बहुनापि ग्रन्थेन पारं न यायात् / ननु 'आदिवाक्यं प्रयोक्तव्यमभिधेयप्रयोजने / प्रतिपादयितुं श्रोतृप्रवाहोत्साहसिद्धये // ' इति नीत्या श्रोतृप्रवृत्त्यर्थ सर्वत्रैवादिवाक्येऽभिधेयप्रयोजनाद्यभिधीयते। तच्चेह नोक्तमिति कथमत्र श्रोतॄणां प्रवृत्तिः स्यात् / मैवम् / अलंकारा ह्यत्राभिधेयाः / तेषामत्र साक्षादेवाभिधानात् / तदभिधायकं चेदमलंकारसर्वखाख्यं प्रकरणमित्यभिधानाभिधेययोर्नियमगर्भीकारेणार्थीक्षिप्तो वाच्यवाचकभावलक्षणः संबन्धः। नह्येवंविधमेतदभिधायकं प्रकरणान्तरमस्ति / तस्यान्विष्यमाणस्याप्युपलम्भयोग्यस्यानुपलम्भात् / अत एवात्रान्यालंकारग्रन्थवैलक्षण्योद्घोषणाय 'तात्पर्यमुच्यते' इत्याद्युक्तम् / अभिधेयाश्चात्रालंकाराः काव्यालंकारा न लौकिका इत्येतेषां काव्योपस्कृतिद्वारेण पारम्पर्येण 'काव्यं यशसेऽर्थकृते व्यवहारविदे शिवतरक्षतये / सद्यः परनिर्वृतये कान्तासंमिततयोपदेशयुजे।' इत्याद्युक्तनीत्या तदविनाभावखभावत्वादाक्षिप्तसर्वपुरुषार्थसिद्धिरूपा चतुर्वर्गावाप्तिः प्रयोजनम् / तयोश्च साध्यसाधनभावलक्षणः संबन्धः। इति स्थितमेवादिवाक्यस्य श्रोतृश्रवणश्रद्धाविर्भावनिबन्धनत्वम् / नेनु यदीहालंकारा अभिधेयास्तर्हि तदलंकार्योऽप्यभिधेयः / 'अलंकारा अलंकार्यापेक्षाः' इति नीत्या स एवैषां को नाम यदुपस्कारकत्वेनैतत्खरूपमभिधीयत इत्याशय तंदवतरणिकामेव वक्तुमुपक्रमते-इहेत्यादिना / प्रभृतिना दण्ड्यादयः / तावच्छब्दो विप्रतिपत्त्यभावद्योतकः। चिरंतनेत्यादि / ध्वनिकारमतमेभिर्न दृष्टमिति भावः / प्रतीयमानमिति / वाच्यव्यतिरिक्तत्वेन खसंवेदनसिद्धमपीत्यर्थः / अर्थमिति / विश्रान्तिस्थानतया परमोपादेयतालक्षणम् / वाच्योपस्कारकतयेति। वाच्योपस्कारकत्वं ह्यलंकाराणामात्मभूतम् / अलंकारपक्षनिक्षिप्त 1. ख-पुस्तके टीकायां प्रारम्भात्प्रभृति आस्तामित्यन्तो ग्रन्थो नास्ति. 2. 'प्रवरोत्साह' ख. 3. 'श्रोतृप्रवृत्तिः' ख. 4. 'युक्त्या ' क. 5. 'ननु च' ख. 6. 'तदवताणिकां' क.