________________ काव्यमाला। वाक्प्रवर्तते // ' एतत्कथयामीति विमर्शरूपा अन्तःसंकल्परूपा प्राणवृत्तिमतिक्रम्य श्रोत्रग्राह्यवर्णाभिव्यक्तिरहिता क्रमरूपानुपातिनी मानसिकवर्णोच्चारणक्रमेण द्वितीयो विवर्तो मध्यमारूपो जायते। मध्यमा किल द्वयोर्वाग्विवर्तयोः पश्यन्तीवैखरीसंज्ञयोर्मध्ये वर्तनान्मध्यमेत्युच्यते / तदनन्तरं च 'स्थानेषु विवृते वायो कृतवर्णपरिग्रहा। वैखरी वाक्प्रयोक्तणां प्राणवृत्तिनिबन्धना॥' इति लक्षणात्स्थानकरणप्रयत्नक्रमव्यज्यमानः श्रोत्रग्राह्यदुन्दुभिवीणादिनादपरिचयो गद्गदाव्यक्तगकारादिविलाससमुच्चयपदवाक्यात्मकतृतीयो विवर्तो वैखरीत्युच्यते / विशिष्टं खमाकाशं मुखरूपं राति गृह्णातीति विखरः प्राणवायुसंचारविशिष्टो वर्णोच्चारस्तेनाभिव्यक्ता वैखरीति / विखरे शरीरे भवा वैखरीति वा केचित् / सिद्धो मङ्गलार्थः / तथा चात्र पूर्वार्ध एव पुनरावृत्त्याभिधेयपदार्थान्वययोजना-यथा परां वाचमुत्तमकाव्यरूपतया काव्यात्मध्वनिसंज्ञां अभिधातात्पर्यलक्षणोत्तीर्णामुत्कृष्टाम् / देवीम् ‘दिवु क्रीडाविजिगीषाद्युतिस्तुतिव्यवहारमोदमदकान्तिस्वप्नगतिषु' इति यथायथं धात्वर्थानामनुस्मरणात् शक्तिमतां कवीनां श्रोतृणां च स्वभावात्स्वेच्छया समुच्छलन्ती क्रीडन्तीम् / तथा देवीं विजिगीषू शब्दं तत्संकीर्तितं चार्थमुपसर्जनीकृत्य वर्तमानाम् / तथा देवीं द्योतमानां द्योतनध्वननयोः पर्यायत्वाद्धृनिसंज्ञाम् / तथा देवी स्तुत्यां सर्वैः काव्यात्मत्वादभिवन्द्याम् / तथा देवीं व्यवहरन्तीं सर्वत्र प्रचरितां न तु क्वापि स्खलिताम् / तथा देवीं मोदमानां श्रुतिमात्रेणैव परमानन्ददायिनीम् / तथा देवीं माद्यन्तीं कवेः सहृदयस्य च यथायथं करणावबोधाभ्यां कमप्यहंकारं जनयन्तीम् / तथा देवी कमनीयां सर्वैरभिलषणीयाम् / त्रिविधविग्रहां त्रिविधस्त्रिप्रकारो विग्रहो व्यतिरेकेण ग्रहो व्यतिरेकमूलः प्रमाकरणप्रकारो यस्यास्ताम् / तथा हि 'गङ्गायां घोषः' इत्यादिवाक्येषु घोषस्य यच्छैत्यपावनत्वादिकं प्रतीयते तत्र नाभिधा। गङ्गादिशब्दानां शैत्याद्यर्थस्यावाचकत्वात् / न तात्पर्यात्मा। तात्पर्यशक्त्या ह्याधाराधेयभावावगमार्थे परस्परमन्वयमात्र एव क्षीणत्वात् / न लक्षणा / मुख्यार्थबाधादिहेतुत्रितयाभावात् / तस्मादभिधातात्पर्यलक्षणाव्यतिरिक्तचतुर्थकक्ष्यानिक्षिप्तो व्यञ्जनव्यापार इत्यादि सोऽयमेवाग्रे विमृष्यति विमर्षिणीकारः। अथ च व्यङ्गयस्य शब्दार्थोभयमूलत्वेन प्रसिद्धस्त्रिविधो विग्रहो विशेषणानां भेदानां ग्रहो यस्या इति वा / एतादृशीं तां नमस्कृत्य मङ्गलाचरणरूपत्वेन मनागुद्दिश्य न तु सूत्रवृत्तिभ्यां तात्पर्यकथनादिलक्षणपरीक्षाविस्तारेण निर्णीय निजालंकारसूत्राणां वृत्त्या तात्पर्यमुच्यत इति / अस्याभिप्रायः-तथा च ध्वनेर्मनागुद्देशमात्रमेव क