________________ काव्यमाला। श्रीमद्राजानकरुय्यकप्रणीतम् अलंकारसर्वस्वम् / श्रीमद्राजानकजयरथप्रणीतयालंकारविमर्षिणीसमाख्यया व्याख्यया समेतम् / नमस्कृत्य परां वाचं देवीं त्रिविधविग्रहाम् / निजालंकारसूत्राणां वृत्त्या तात्पर्यमुच्यते // मङ्गलकामनया ग्रन्थकृन्निजेष्टदेवताप्रणामपुरःसरमभिधेयं तात्पर्यं चैकेनैव वाक्येन परामृशति-नमस्कृत्येति / परां वाङ्मयाधिदेवतां पराख्यां शब्दब्रह्मणोऽपृथग्भूतां शक्तिं परां वाचं देवीं त्रिविधविग्रहां बहिरुल्लिलासयिषया पश्यन्तीमध्यमावैखरीरूपेण प्रकारत्रयेणाधिष्टितशरीरां नमस्कृत्य निर्विघ्नचिकीर्षितग्रन्थसमाप्तये तां प्रति कायवाड़ानोभिः प्रह्वीभूय निजालंकारसूत्राणां वृत्त्या तात्पर्यमुच्यत इति मङ्गलान्वययोजना। तथा चात्रोक्तलक्षणार्थविस्तरः----'येयं विमर्शरूपैव परमार्थचमत्कृतिः। सैव सारं पदार्थानां परा वागभिधीयते // नादाख्या सर्वभूतेषु जीवरूपेण संस्थिता / अनादिनिधना सैव सूक्ष्मा वागनपायिनी // अनादिनिधनं ब्रह्म शब्दतत्त्वं यदक्षरम् / विवर्ततेऽर्थभावेन प्रक्रिया जगतो यतः॥ वैखरी शब्दनिष्पत्तिमध्यमा स्मृतिगोचरा। द्योतिकार्थस्य पश्यन्ती सूक्ष्मा ब्रह्मैव केवलम् // ' इत्यादिशास्त्रोक्तिक्रमेण सर्वत्र सदोदितायाः सूक्ष्मायाः परायाः शब्दब्रह्मणः शक्तेहिरुन्मिषन्त्याः प्रथमो विवर्तः पश्यन्ती नाम / तथा चोक्तम्-'अविभागा तु पश्यन्ती सर्वतः संहृतकमा। स्वरूपज्योतिरेवान्तःसूक्ष्मा वागनपायिनी // ' इति / अस्यार्थः--अविभागा स्थानकरणप्रयत्नप्रकारेण वर्णानां विभागहीना अत एव संहृतकमा तथैवान्तःस्वरूपज्योतिः स्वयंप्रकाशा वस्यात्मनो रूपं ज्योतिश्च सर्वत्र हि सर्वविधायिनी शक्तिरेवेति वान्तःसूक्ष्मबीजाद१रमिव बहिरुन्मिषन्ती किंचिदुच्छूना पराया मध्यमायाश्चावस्थां तटस्था पश्यतीति पश्यन्तीत्युच्यते। ततः परंतु-'अन्तःसंकल्परूपा या क्रमरूपानुपातिनी / प्राणवृत्तिमतिक्रम्य मध्यमा