________________ 230 काव्यमाला। यदि तु वास्तवमेवात्र सौन्दर्य कविनिबद्धं कविनिबद्धवक्तृनिबद्धं वा सकलवक्तृगोचरीभूतं खभावोक्तिवदलंकारतया वर्ण्यते, तदायमपि प्रकारो नातीव दुःश्लिष्टः / अत एव 'प्रत्यक्षा इव यत्रार्थाः क्रियन्ते भूतभाविनः / तद्भाविकम्' इति, एवमन्य विकलक्षणमकारि। खभावोक्त्या किंचित्सादृश्यात्तदनन्तरमस्य लक्षणं कृतम् / - समृद्धिमद्वस्तुवर्णनमुदात्तम् / / खभावोक्तौ भाविके च यथावंद्वस्तुवर्णनम् / तद्विपक्षत्वेनारोपितवस्तुवर्णनात्मन उदात्तस्यावसरः / तत्रासंभाव्यमानविभूतियुक्तस्य वस्तुनो वर्णनं कविप्रतिमोत्थापितमैश्वर्यलक्षणमुदात्तम् / यथा.... 'मुक्ताः केलिविसूत्रहारगलिताः संमार्जनीभिर्हताः ... प्रातः प्राङ्गणसीनि मन्थरचलद्वालानिलाक्षारुणाः। यदि त्वित्यादिना / सकलवक्तृगोचरीभूतमिति / कवित्वमात्रगम्यत्वात् / अत एव प्रत्यक्षायमाणत्वस्य तन्निर्मितायमानत्वं स्यात् / सकलवक्तृगोचरीभूतत्वे पुनर्यथोक्तं वास्तवत्वमेवेति भावः / नातीवेति / न पुनः प्रकारवत्सुश्लिष्ट इति यावत् / अत एवेति / वास्तवस्यापि सौन्दर्यस्यात्रालंकारतया वर्णनात् / एतावदेवेति न पुनः शब्दानाकुलत्वादिवस्तुनि तस्याविशेषात् / अन्यैरिति / काव्यप्रकाशकारादिभिः। समृद्धिमदित्यादि / तद्विपक्षत्वे. नेति / वस्त्ववस्तुवर्णनयोर्विरुद्धत्वात् / तत्रेति / एवमवसरे सतीत्यर्थः / असंभाव्यमानेति / संभाव्यमानविभूतियुक्तस्य तु वर्णनं नैतदङ्गमिति भावः / यथा-'प्रातश्चकासति गृहोदरकुट्टिमाग्रविक्षिप्तरत्नकुसुमप्रकरावकीर्णाः / अभ्युद्गतारुणकराहतिपात्यमाननक्षत्रराशिशबला इव यत्र रथ्याः // ' अत्र हि भगवन्नगर्यां वस्तुत एव संभवति रत्नविक्षेपः। अत एवास्य कविप्रतिभोत्थापितत्वमुकम् / एवं चास्य नामापि सार्थकम् / अलंकारसारकृता पुनरत्रातिशयोक्तिप्रका-- 1. 'कृताः ' क-ख.