________________ अलंकारसर्वस्वम् / 229 पुलिन्दवर्णनादौ ज्ञेयम् / अयं त्वत्र विचारलेशः संभवति-इह क्वचिद्वर्णनीयस्य वर्णनावशादेव प्रत्यक्षायमाणत्वम् / कचित्प्रत्यक्षायमाणस्यैव वर्णनम् / आयो यथोदाहृतं प्राच / द्वितीयो यथा'अनातपत्रोऽप्ययमत्र लक्ष्यते सितातपत्रैरिव सर्वतो वृतः। अचामरोऽप्येष सदैव वीज्यते विलासबालव्यजनेन कोऽप्ययम् / / इति / अत्र प्रथमप्रकारविषयोऽयमलंकारो न प्रकारान्तरगोचरः / कविसमर्पितानां धर्माणां ह्यलंकारत्वात् / न हिमांशुलावण्यादीनामिव वस्तुसन्निवेशिनाम् / अपि च 'शब्दानाकुलता चेति तस्य हेतूम्प्रचक्षते' इति भामहीये, 'वाचामनाकुलत्वेनापि भाविकम्' इति चौद्भटलक्षणे व्यस्तसंबन्धरहितशब्दसंदर्भसमर्पितत्वं प्रत्यक्षायमाणत्वप्रतिपादकं कथं प्रयोजकीभवेत् , यदि वस्तुसन्निवेशधर्मिगतत्वेनापि भाविकं स्यात् / तस्माद्वास्तवमेव महत्त्वमुत्तरत्र प्रकारविषये वर्णितमिति नायमलंकारः / चिरंतनोक्तनीत्या विचार्य पुनरपि खोपज़ कंचिद्विचारमाह-अयमित्यादिना। संभवतीति / न पुनः केनापि दृष्ट इति भावः / यथोदाहृतमिति / मुनिर्जयतीत्यादिना / प्रथमेति / यत्र वर्णनावशात्प्रत्यक्षायमाणत्वम् / अत एव कविसमर्पितधर्मत्वं न वस्तुसन्निवेशिनां धर्माणामलंकारत्वादिति संबन्धः / न हि वस्तुमात्रवर्णने कविकौशलं किंचिदिति भावः / अपि चेति / निपातसमुदायः समुच्चयार्थः अत्रैव वाक्यगत्या हेत्वन्तरस्य समुच्चीयमानत्वात् / कथमिति / वस्तुमात्रवर्णने शब्दानामाकुलताया अनाकुलतायाश्चाविशेषात् / उत्तरप्रकारेति / अनातपत्रोऽपीत्यादौ / अत्रापि प्रकारान्तरेणालंकारत्वं योजयति 1. 'उत्तरत्वप्रकारविषये' ख. 2. 'वस्तुसंनिवेशादलंकारत्वादिति संबन्धः' क.