________________ अलंकारसर्वस्वम् / 231 दूराद्दांडिमबीजशङ्कितधियः कर्षन्ति केलीशुका यद्विद्वद्भवनेषु भोजनृपतेस्तत्त्यागलीलायितम् // ' अङ्गभूतमहापुरुषचरितं च / उदात्तशब्दसाम्यादिहाभिधानम् / महापुरुषाणामुदात्तचरितानामनिभूतवस्त्वन्तरानभावेनोपनिबध्यमानं चरितं चोदात्तम् / महापुरुषचरितस्योदात्तत्वात् / यथा 'तदिदमरण्यं यस्मिन्दशरथवचनानुपालनव्यसनी / निवसन्बाहुसहायश्चकार रक्षःक्षयं रामः // ' अत्रारण्ये वर्णनीये रामचरितमङ्गत्वेन वर्णितम् / रत्वमुक्तम् / अङ्गभूतेत्यादि / एतदेव व्याचष्टे-महापुरुषाणामित्यादिना। अङ्गभूतस्य वस्तुनो महापुरुषचरितमुत्कर्षप्रतिपिपादयिषयाङ्गतयोपनि. बध्यमानमेतदलंकाराङ्गम् / न तूपलक्षणमात्रपरतयोपात्तमिति तात्पर्यार्थः / तच्च यथोदाहृतम् / 'कश्चित्कान्ताविरहगुरुणा खाधिकारप्रमत्तः शापेनास्तंगमितमहिमा वर्षभोग्येण भर्तुः / यक्षश्चके जनकतवयास्नानपुण्योदकेषु स्निग्धच्छायातरुषु वसतिं रामगिर्याश्रमेषु // ' अत्राङ्गिनो गिरिविशेषस्य वसतियोग्यत्वादिदर्शनार्थमुत्कर्षप्रतिपिपादयिषया रामसीतादिचरितमुपलक्षणपरं तत्र नायमलंकारः / यथा-'गोदावर्याः करिकुलमदक्षोददक्षोदकायाः पारे पारे बत बत परामृश्यतामृष्यमूकः / कंकालाद्रौ पिहितगगने दुन्दुभैर्यत्र रामः पादाङ्गुष्ठं निजमपि भव. दैवतं निर्ममेऽस्तम् // ' अत्र पवनं प्रति वियोगिन्या उक्तौ रामचरितमुपलक्षणमात्रपरम् / न ह्यङ्गभूतेनाङ्गिनः कश्चिद्विशेषो विवक्षितः / 'अत्रासीत्फणिपाशबन्धनविधिः शक्त्या भवद्देवरे गाढं वक्षसि ताडिते हनुमता द्रोणाद्रिरत्राहृतः। दिव्यौरिन्द्रजिदत्र लक्ष्मणशरैर्लोकान्तरं प्रापितस्तस्याप्यत्र मृगाक्षि राक्षसपतेः कृत्ता च कण्ठाटवी // ' इत्यत्र तु रामस्य सीतां प्रत्युक्तावुपलक्षणीभूतदेशविशेषं पाशबन्धनायेव साक्षाद्विवक्षितमिति न महापुरुषचरितस्य वस्त्वन्तरं प्रत्यङ्गभाव इति