________________ 226 * काव्यमाला। क्षत्वप्रतीतेः काव्यलिङ्गमिदम् / लिङ्गलिङ्गयभावेन प्रतीत्यभावात् / योगिवत्प्रत्यक्षतया प्रतीतेः। नाप्ययं पुरः स्फुरद्रूपतया सचमत्कारं प्रतीते रसवदलंकारः / रत्यादिचित्तवृत्तीनां तदनुषक्ततया विभावादीनामपि साधारण्येन हृदयसंवादितया परमाद्वैतज्ञानवत्प्रतीतौ तस्य भावात् / इह तु ताटस्थ्येन भूतभाविनां स्फुटत्वेन भिन्नसर्वज्ञवप्रतीतेः / स्फुटप्रतीत्युत्तरकालं तु साधारण्यप्रतीतौ स्फुटप्रतीतिनिमित्तक औत्तरकालिको रसवदलंकारः स्यात् / नापीयं सूक्ष्मवस्तुखभाववर्णनात्खभावोक्तिः / तस्यां लौकिकवस्तुगतसूक्ष्मधर्मवर्णने साधारण्येन हृदयसंवादसंभवात् / प्रयोक्तृत्वं भवतीति भावः। नन्वत्यद्भुतपदार्थप्रत्यक्षप्रतीत्योर्गम्यगमकभावात्वि नेदमनुमानमित्याशङ्कयाह-नापीत्यादि / एवं रसवदलंकारादस्य भेदं दर्शयति-नाप्ययमित्यादिना / पुरःस्फुरद्रूपतयेत्यादिनानयोरभेदनिमित्तमुक्तम्। परकीयायाश्चित्तवृत्तेरात्मीयचित्तवृत्त्यभेदेन परामर्शो हृदयसंवादः / तस्य च खपरविभागाभावाद्देशकालाभावाच्च व्यापकत्वेन प्रतीतेः साधारण्यम् / अत एव परमाद्वैतज्ञानतुल्यत्वम् / तस्य ह्ययमित्येव परामशेः। तद्यतिरिक्तस्यान्यस्यासंभवात् / ताटस्थ्येनेति / इदमहं जानामीति सामानाधिकरण्येन प्रतीत्येत्यर्थः / अत एव विद्येश्वरादितुल्यत्वम् / ननु भाविकप्रतीत्यनन्तरं यत्र रसवदलंकारः प्रतीयते तत्र किं प्रतिपत्तव्यमित्याशझ्याह-स्फुटेत्यादि / एवमत्रानयोरङ्गानितया समावेश इति तात्पर्यार्थः / तत्तु यथा-'वनान्तरादुपावृत्तैः स्कन्दासक्तसमित्कुशैः / अग्निप्रत्युद्गमात्पूतैः पूर्यमाणं तपखिभिः // ' अत्र तपस्विनां स्फुटत्वप्रतीतिः शान्ताख्यरसोदयाङ्गमिति न तयोरैकात्म्यम् / एवं च सुन्दरस्य वस्तुनो यथावद्वर्णनावशात्प्रत्यक्षायमानत्वमस्य खरूपमिति तात्पर्यम् / ननु यद्येवं तत्किमिदं स्वभावोक्तिरेवेत्याशझ्याह-नापीयमित्यादि / ईदृगिदं वस्त्वित्यत्र हृदयसंवादः / स च यथा-'यत्र स्तनंधयाहस्ते रत्नदीपाजिघृक्षतः / 1. 'चित्तवृत्तिभेदेन' क. 2. 'स्वभावोक्तिरेव नेत्याशङ्याह' ख.