________________ अलंकारसर्वखम्। 225 भावात् / मदाहुः-तत्र यो ज्ञानप्रतिभासनात्मनोऽन्धयव्यतिरेकाव. नुकारयति स प्रत्यक्षः' इति / केवलवस्तुप्रत्यक्षत्वे प्रतिपत्तुः सामग्री उपयुज्यते / सा च लोकयात्रायां चक्षुरादीन्द्रियखभावायोगिनामतीन्द्रियार्थदर्शने भावनारूपा / काव्यार्थविदां च भावमा समावैव / सा च भावना वस्तुगस्यात्यद्भुतत्वप्रयुक्ता / अत्यद्भुतानां च वस्तूनामादरप्रत्ययेन हृदि संधार्यमाणत्वात् / नापि भूतमाविनामप्रत्यक्षाणां प्रत्यक्षतयैव प्रतीतेरिवार्थगर्भीकारेणायं प्रतीयमानोत्प्रेक्षा / तस्या अभिधानरूपाख्याध्यवसायखभावत्वात् / न ह्यप्रत्यक्षं प्रत्यक्षत्वेनाध्यवसीयते / किं तर्हि काव्यार्थविद्भिः प्रत्यक्षत्वेन दृश्यते इति / नापि वस्तुगता इवार्था उत्प्रेक्षाप्रयोजकाः / तस्या अभिमानरूपायाः प्रतिपत्तृधर्मत्वात् / यदाहुः-'अभिमानेन सा योक्तिर्ज्ञानधर्मसुखादिवत्' इति च / काव्य. विषये च प्रयोक्तापि प्रतिपत्तैवं / नाप्यद्भुतदर्शनादतीतानागतयो प्रस्म द्हनत्वाच नेह प्रपञ्चितम् / ननु यद्येवं तत्प्रमातुः सदैव समस्तबाह्यवस्त्ववगमः किं न स्यादित्याशझ्याह-केवलमित्यादि / भावनारूपेति / तत्रेन्द्रियादीनामव्यापारणात् / एवं योगिनां भावनांबलाद्भूतभावितयैव प्रत्यक्षावभास इति भावः / यदाहुः-'अतीतानांगतज्ञानं प्रत्यक्षान्न विशिष्यते' इति / चः समुच्चये। तेन योगिनामतीन्द्रियार्थदर्शने यथा भाविना निमित्तं तथैव काव्यार्थविंदामपी. त्यर्थः / तस्याश्च निमित्तमाह-सा चेत्यादि / वस्तुनोऽत्यद्भुतत्वमादरें निर्मित्तम् / आदरश्च वस्तुनो हृदि संधारणम् / तच्च तदेकतानतया प्ररूंढ सद्भावनात्वमुपयातीति काव्यार्थविदां योगिनामिवं भावनाबलात्खकालावच्छेदेनैव भूतभाविवस्तुप्रत्यक्षतया भासत इति नाप्रत्यक्षाणां प्रत्यक्षतयाध्यवसायः / ननु यद्यपि योगविद्भतभाविनो भावाः खकालावच्छेदेनैव सचेतसः प्रत्यक्षतयेव तदभावभासनं युक्तमित्येतत्प्रतीयमानोत्प्रेक्षैव किं नेत्याशझ्याह-नापीत्यादि / किं तहाँति / अध्यवसायो नास्त्येवेत्यर्थः / प्रतिपत्तैवेति / नयजानतः कवितुः 1. 'दर्शनेन' क. 15 अ० स०