________________ अलंकारसर्वस्वम्। 227 इह च लोकोत्तराणां वस्तूनां स्फुटतया ताटस्थ्येन प्रतीतेः। कचित्तु लौकिकानामपि वस्तूनां स्फुटत्वेन प्रतीतौ भाविकखभावोक्त्योः समावेशः स्यात् / न च हृदयसंवादमात्रेण खभावोक्तिरसवदलंकारयोरमेदः / वस्तुसंवादरूपत्वात्खभावोक्तेः। चित्तवृत्तिसमाधिरूपत्वाच रसवदलं. कारस्य / उभयसंवाददर्शनेऽपि समावेशोऽपि घटते / यत्र वस्तुगत दृष्ट्वा हा हेति संभ्रान्ता धात्री चेटैर्विहस्यते // ' अत्र धात्रीणामीगयं खभाव इति वस्तुनिर्दिष्टो हृदयसंवादः / यथा वा-'यदाखाद्यं सीता वितरति तदने स्वगृहिणे सुमित्रापुत्राय प्रणिहितविशेषं तदनु च / यदामं यत्क्षामं यदनतिरसं यच विरसं फलं वा मूलं वा रचयति तु तेन खमशनम् // ' अत्रेडगेव गृहिणीनां खभाव इति संवादः / स्फुटतयेति / पुरःस्फुरदूपतया। सा च प्रतीतिर्यथा-'निमीलितस्य पूर्णेन्दोः सुधायां पङ्किलाङ्गुली / यत्र मृत्युजितः पादौ भाव्येते भावित पुरः // ' यथा च-दर्भाकुरेण चरणः क्षत इत्यकाण्डे तन्वी स्थिता कतिचिदेव पदानि गत्वा / आसीद्विवृत्तवदना च विमोचयन्ती शाखासु वल्कलमसक्तमपि द्रुमाणाम् // ' अत्र पादयोः शकुन्तलायाश्च शुद्धैव प्रत्यक्षत्वेन प्रतीतिः / ननु च यत्र खभावोक्तावपि प्रत्यक्षतया प्रतीतिस्तत्र किमित्याशङ्याह-क्वचिदित्यादि। समावेश इति / संसृष्टिरूपः संकररूपो वा / स तु यथा-'हेरम्भोऽत्र हरीश्वरे नखमुखैः कण्डूयमाने गलं कुर्वन्युच्छविवर्तनां निविरतो रोमन्थलीलायितात् / संमीलन्नयने विसंस्थुललसत्सास्त्रं नतोन्नामितग्रीवं निश्चलकर्णमीश्वरबलीवर्दः सुखं मन्यते // ' अत्र वृषभस्य पुच्छविवर्तनादिसूक्ष्मधर्मवर्णनेन खभावोक्तिः, प्रत्यक्षायमानत्वेन भाविकमित्यनयोः समावेशः। खभावोक्तेरपि रसवदलंकारात्प्र. सङ्गेन भेदं दर्शयति-न चेत्यादिना / हृदयसंवादो हि वस्तुचित्तवृत्तिगतत्वेन द्विविधः / तत्र स्वभावोक्तौ वस्तुसंवादः प्रदार्शतः। चित्तवृत्तिसंवादस्तु' यथा'चन्द्रांशुस्मेरधम्मिल्लमल्लिकानां प्रियं प्रति / सौधेषु नीतं रामाणां यत्रालिभिरनूद्यते // ' अत्र प्रियाभिलाषिणी नायिकाचित्तवृत्तिः सचेतसां खचित्तवृत्त्यभेदेन संवदतीति तत्संवादः / यत्र द्विविधोऽपि संवादस्तत्र किं प्रतिपत्तव्यमित्याशङ्याह -उभयेत्यादि / स च समावेशो यथा-'किंचित्कुञ्चितचञ्चुचुम्बनमुखस्फा