________________ 222 काव्यमाला। 'विजये कुशलरूयक्षो न क्रीडितुमहमनेन सह शक्ता / विजये कुशलोऽसि न तु व्यक्षोऽक्षद्वयमिदं पाणौ // किं मे दुरोदरेण प्रयातु यदि गणपतिर्न तेऽभिमतः / कः प्रद्वेष्टि विनायकमहिलोकं किं न जानासि // चन्द्रग्रहणेन विना नास्मि रमे किं प्रतारयस्येवम् / देव्यै यदि रुचितमिदं नन्दिन्नाहूयतां राहुः // हा राही शितदंष्ट्रे भयकृति निकटस्थिते रतिः कस्य / यदि नेच्छसि संत्यक्तः संप्रत्येषैव हाराहिः // वसुरहितेन क्रीडा भवता सह कीदृशी न जिहेषि / किं वसुभिर्नमतोऽमून्सुरासुरान्नैव पश्यसि पुरः // आरोपयसि मुधा किं नाहमभिज्ञा किल त्वदकस्य / दिव्यं वर्षसहस्रं स्थित्वेति न युक्तमभिधातुम् // इति कृतपशुपतिपेलवपाशकलीलाप्रयुक्तवक्रोक्ति। हर्षवशतरलतारकमाननमव्याद्भवान्या वः // ' वक्रोक्तिशब्दश्चालंकारसामान्यवचनोऽपीहालंकारविशेषे संज्ञितः / सूक्ष्मवस्तुखभावयथावद्वर्णनं खभावोक्तिः / दरेणेति सभङ्गत्वम् / 'मेरोऽवताद्वः शिवः' तथा 'प्रयुक्तवक्रोक्ति' इत्यादिना वचनविघातमात्रप्रयोजनस्यान्यथा योजनस्य प्रहेलिकाप्रायत्वमेव प्रकाशितम् / ननु 'सैषा सर्वैव वक्रोक्तिः कोऽलंकारोऽनया विना' इति नीत्या समग्र एवालंकास्वर्गो वक्रोक्तिरूप इति कथमयमेव तथात्वेन निर्दिष्ट इत्याशयाह-वक्रोक्तीत्यादि / इहेति / वाक्छलात्मकत्वेनोक्तेः कौटिल्यात् // सूक्ष्मेत्यादि / ननु