________________ अलंकारसर्वस्वम् / 223 इह वस्तुखभाववर्णनमात्रं नालंकारः / तत्त्वे सति सर्वं काव्यमलं. कारि स्यात् / न हि तत्काव्यमस्ति यत्र न वस्तुखभाववर्णनम् / तदर्थ सूक्ष्मग्रहणम् / सूक्ष्मः कवित्वमात्रस्य गम्यः / अत एव तनिर्मित एव यो वस्तुखभावस्तस्य यथावदन्यूनानतिरिक्तत्वेन वर्णनं स्वभावोक्तिरलंकारः। उक्तिवाचोयुक्तिप्रस्तावादिह लक्षणम् / भाविकरसवद. लंकाराभ्यामस्य भेदो भाविकप्रसङ्गे निर्णेष्यते / यथा क्रकारो नखकोटिचञ्चपुटकव्याघट्टनोट्टङ्कित स्तन्व्याः कुन्तलकौतुकव्यतिकरे सीत्कारसीमन्तितः / पृष्ठश्लिष्यदवामनस्तनभरोत्सेव्याङ्कपालीसुधा सेकाकेकरलोचनस्य कृतिनः कर्णावतंसीभवेत् // ' अतीतानागतयोः प्रत्यक्षायमाणत्वं भाविकम् / कथं वस्तुवर्णनमात्रमलंकार इत्याह-इहेत्यादि / तदतिशयहेतवस्त्वलंकाराः' इति नीत्या वस्त्वतिशयदायिनां धर्माणामलंकारत्वात्कथं वस्तुमात्रस्यैवालंकारत्वं स्यादिति भावः / ननु कथमेतत्सूक्ष्ममात्रग्रहणेनैव समाहितमित्याशङ्कयाहसूक्ष्म इत्यादि / कवित्वमात्रस्येति / कुशाग्रीयधिषणत्वात् / एवं स्थूलमतीनामकवीनां कुकवीनां तस्यावगमेऽपि तथा विकल्पारोहो न भवेदिति भावः / अत एवेति / कवित्वमात्रगम्यत्वात् / तनिर्मित एवेति / अन्येषां तथात्वेन वक्तुमशक्यत्वात् / तद्वस्तुगतस्यासाधारणस्य फलक्रियादेः संभवतः खमावस्य शब्देन प्रतिपादनमात्रत्वात्तन्निर्मित एवेत्युक्तम् / अन्यूनानतिरिक्तत्वेनेति / यथा वस्तुनि संभवतीत्यर्थः / अत एव सचेतसां वस्तुगतस्य सूक्ष्मसुभगस्य वस्तुनो वर्णनेन हृदयसंवादाच्च किमयं रसवदलंकारो वा न भवतीत्याशङ्ख्याह-भाविकेत्यादि / तत्र निर्णेष्यमाणस्यैतद्भेदस्य 'वस्तुनश्चित्तवृत्तेश्व संवादः स्फुटता प्रथा / स्वभावोके रसवतो भाविकस्य च लक्षणम् // ' इत्ययं संक्षेपः // अतीतानागतयोरित्यादि / एतदेव व्याचष्टे-अतीतेत्यादि / 1. सूक्ष्मम्' ख. 2. 'प्रत्यक्षायमानत्वं' क. 3. 'सूक्ष्ममित्यादि' ख.