________________ अलंकारसर्वस्वम् / "अहो केनेशी बुद्धिर्दारुणा तव निर्मिता। . त्रिगुणा श्रूयते बुद्धिर्न तु दारुमयी कचित् // ' अत्र दारुणेति प्रथमान्तं प्रक्रान्तं श्लेषमझ्या तृतीयान्ततया संपादितम् / सभङ्गश्लेषमुखेन यथा'वं हालाहलभृत्करोषि मनसो मूछो समालिजितो हालां नैव बिभर्मि नैव च हलं मुग्धे कथं हालिकः। सत्यं हालिकतैव ते समुचिता सक्तस्य गोवाहने वक्रोक्त्येति जितो हिमाद्रिसुतया स्मेरोऽवताद्वः शिवः॥' उभयमुखेन यथा ह्यन्यथा योजनस्य क्वचिद्वचनविघातमात्रं फलं कचिच संभाव्यमानव्याहतिनिबन्धनत्वेऽप्यर्थान्तरे तात्पर्यम् / फलभेदश्चालंकारभेदनिमित्तमित्यविवादः / तेन पूर्वत्र वक्रोक्तिरपरत्र व्याघात इति यथोक्त एवालंकारभेदो न्याय्यः / एवं फलान्तरेष्वपि ज्ञेयम् / तस्मात् “एष श्रीकण्ठकण्ठच्छविरनभिमतो राजहंसव्रजानां सद्यस्तापं प्रजानां प्रशममुपनयनच्छधाराच्छलेन / कुर्वन्दिक्चक्रवालाक्रमणमुदयते देव को वारिवाहो मा मैवं मालवेन्द्रो परिमलकतरस्तर्हि राजन्नसिस्ते // ' इत्यत्र श्रोत्रा संभावितस्य वारिवाहस्यान्यथा खड्गत्वेन योजनं, तस्य तत्सादृश्यप्रतीत्यर्थमित्यङ्गभूतोत्तरमार्थमौपम्यं वक्तुर्विवक्षितम्। वाक्छलमुपचारफलम्। तदविशेषादिति वाक्छलेनैवास्य संग्रहादुपचारच्छलात्मकम् / क्वचित्त्वौपचारिके प्रयोगे मुख्यार्थमुपादानमिति भेदान्तरमप्यवसानवाच्यम् / यस्तु तदर्थान्तराभावादिति न्यायाद्वागुपचारच्छलयोर्विशेष उक्तः स नैयायिकानामुपयुक्तो नालंकारिकाणाम् / तथात्वेनान्यथायोजनस्य वैचित्र्यान्तराभावात् / यद्वा मुख्यौपचारिकार्थद्वयस्यैकवृन्तगतफलद्वयन्यायेन शब्दश्लिष्टत्वादस्य श्लेषवक्रोक्तावन्तर्भावः स्यात् / उभयमुखेनेति / सभङ्गासभङ्गश्लेषद्वारेण / विजय इति श्लेषस्यासभङ्गत्वम् / मेदुरो 1. 'आहो' ख. 2. 'मुख्यार्थापादानं' ख. 3. 'भेदान्तरमप्यस्या न वाच्यं' ख. 4. 'एकवृन्तगतच्छलस्वन्यायेन' क.