________________ 218 काव्यमाला / 'संकेतकालमनसं विटं ज्ञात्वा विदग्धया / __हसन्नेत्रार्पिताकूतं लीलापमं निमीलितम् // " अत्र संकेतकालाभिप्रायो विटसंबन्धिना भ्रूक्षेपादिना इनितेन लक्षितः रजनिकालभाविना लीलापद्मनिमीलनेन प्रकाशितः / आकारायथा'वक्रस्यन्दिखेदबिन्दुप्रबन्धैदृष्ट्वा भिन्नं कुङ्कुमं कापि कण्ठे / पुंस्त्वं तन्व्या व्यञ्जयन्ती वयस्यां स्मित्वा पाणौ खड्गलेखां लिलेख // ' __ अत्र खेदबिन्दुकृतकुङ्कुमरूपभिन्नेनाकारेण संलक्षितं पुरुषायित पाणौ पुरुषोचितखड्गधारालिखनेन प्रकाशितम् / उद्भिन्नवस्तुनिगृहनं व्याजोक्तिः। यत्र निगूढं वस्तु कुतश्चिन्निमित्तादुद्भिन्नं प्रकटतां प्राप्तं सद्वस्त्वन्तरप्रक्षेपेण निगृह्यते अपलप्यते, सा वस्त्वन्तरप्रक्षेपरूपस्य व्याजस्य वचनाद्व्याजोक्तिः / यथा'शैलेन्द्रप्रतिपाद्यमानगिरिजाहस्सोपगूढोल्लस द्रोमाञ्चादिविसंस्थुलाखिलविधिव्यासङ्गभन्नाकुलः / हा शैत्यं तुहिनाचलस्य करयोरित्यूचिवान्सस्मितं शैलान्तःपुरमातृमण्डलगणदृष्टोऽवताद्वः शिवः // ' प्रकाशनमात्रं वाप्ययमेवालंकार इति / अत एवात्र सखीभिः सुरतोत्सुकत्वं संलक्षितम्। कर्णोत्पलन्यासादिना प्रकाशितमित्युभयार्थसहितत्वम् / तदेवमादौ सूक्ष्मालंकार एव वाच्यः / सूक्ष्मस्यैवार्थस्य संलक्ष्यमाणत्वादिनावस्थानात् // उद्भिन्नेत्यादि / निगूढमिति / वस्तुतः। वस्त्वन्तरप्रक्षेपेणेति /