________________ अलंकारसर्वखम् / क याचसे तदिह वासमियं बराकी - श्वश्रूर्ममान्धबधिरा ननु मूढ पान्थ / / ' ... 'का विसमा देवगई किं लद्धं जं जणो गुणग्गाही / किं सोक्खं सुकलतं किं दुक्खं जं खलो लोओ॥' पूर्वत्र मम वासो दीयतामिति प्रश्न उत्तरादुन्नीयते / उत्तरत्र दैरगत्यादिनिगूढत्वादसंभाव्यमसकृत्प्रश्नपूर्वकमुत्तरं निबद्धम् / इतः प्रमृति गूढार्थप्रतीतिपरालंकारलक्षणम्संलक्षितसूक्ष्मार्थप्रकाशनं सूक्ष्मम् / इह सूक्ष्मः स्थूलमतिभिरसंलक्ष्यो योऽर्थः, स यदा कुशाग्रमतिभिरिङ्गिताकाराभ्यां संलक्ष्यते तदा तस्य संलक्षितस्य विदग्धं प्रति प्रका. शनं सूक्ष्ममलंकारः / तत्रेङ्गिताद्यथा श्रान्तेः / द्वितीयो यथा-'पुंसः संबोधनं किं विदधति करिणं के रुचोऽनर्मिषकिं का शून्या ते रिपूणां नरवर नरकं कोऽवधीत्कीउनं किम् / के वा वर्षासु न स्युस्तृणमिव हरिणा किं नखाग्रैविभिन्नं विन्ध्याद्रौ पर्यटन्को विघटयति तनुर्नर्मदावारिपूरः // ' 'नर्मदावारिपूरः' इति, सभंगासभङ्गत्वेन त्रिरुत्तरम् / अत्र च यथोकमनुमानपरिसंख्यावैलक्षण्यं सुस्पष्टमेवेति ग्रन्थविस्तरभयान्नोक्तमिति // अधुनालंकारान्तराणां लक्षणं कर्तुमुपकमतेत इत्यादि / एतदेव व्याचष्टेइहेत्यादि / इङ्गिताकाराभ्यां सूक्ष्मार्थसंलक्षणादस्य भेदद्वयमप्युक्तम् / एवं संलक्षितस्यार्थस्य प्रकाशनमयमलंकार इत्यत्र तात्पर्यम् / 'कुतोऽपि लक्षितः सूक्ष्मोऽप्यर्थोऽन्यस्मै प्रकाश्यते / धर्मेण केनचिद्यत्र तत्सूक्ष्म परिचक्षते // ' किं च 'यत्र कर्णोत्पलन्यस्तहस्तदीपावलोकिनी / दृष्ट्वा वधूः प्रियोपान्ते सखीभिः प्रतिमुच्यते // ' इत्येतद्वन्थप्रक्रिययालंकारोदाहरणजातं कुर्वताप्यलंकारभाष्यकृतासूक्ष्मालंकारे यत्तदनुगुणमुदाहृतं तत्रायमाशयः- यत्सूक्ष्मस्यार्थस्य संलक्षणमात्र 1. 1. 'न शृणोति कश्चित्' क. 2. 'का विषमा दैवगतिः किं लब्धं यजनो गुणमाही। किं सौख्यं सुकलनं किं दुःखं यत्खलो लोकः // ' इति च्छाया.