________________ " काव्यमाला / उत्तरात्प्रश्नोनयनमसकृदसंभाव्यमुत्तरं चोत्तरम्। यत्रानुपनिबध्यमानोऽपि प्रश्न उपनिबध्यमानादुत्तरादुनीयते, तदेकमुत्तरम् / न चेदमनुमानम् / पक्षधर्मतादेरनुद्देशात् / यत्र च प्रश्नपूर्वकमसंभावनीयमुत्तरं, तच्च न सकृत् तावन्मात्रेण चारुत्वाप्रतीतेः / अतश्चासकृन्निबन्धे द्वितीयमुत्तरम् / न चेयं परिसंख्या / व्यवच्छेद्यव्यवच्छेदकपरत्वाभावात् / क्रमेण यथा 'एकाकिनी यदबला तरुणी तथाह ममदहे गृहपतिश्च गतो विदेशम् / कार्यस्यानर्थस्योत्पत्तिश्च लक्षणम् / उत्तरादित्यादि / उन्नीयत इति / प्रश्नरूपत्वेन संभाव्यत इत्यर्थः / ननु चाप्रतीतस्य प्रत्ययनात्किमिदमनुमानं न भव. तीत्याशमाह-न चेदमित्यादि / असंभावनीयमिति / कविप्रतिभानिवर्तितमित्यर्थः / तदिति / प्रश्नपूर्वकमुत्तरम् / एवं प्रश्नस्याप्यसकृदेवोपनिबन्धो न्याय्यः / अतश्चेति / सकृदुत्तरस्य चारुत्वाप्रतीतेः / एवं समानन्यायत्वात्पूर्वः त्राप्यनुपनिबध्यमानप्रश्नागरकमुत्तरं न सकृत् , तावन्मात्रेण चारुत्वाप्रतीतेरित्याश्रयणीयम् / ननु च प्रश्नोत्तररूपत्वादियं परिसंख्यैव किं न भवतीत्याशयाहन चेयमित्यादि / एतच्चोत्तराख्यमलंकारद्वयम् / न पुनरेकः, सामान्यलक्षणायोगात् / एतच्चोदाहरणद्वयं ग्रन्थकृता प्राच्यमतानुरोधेन दत्तम् / वस्तुतस्त्वत्र नास्त्येतदलंकारद्वयम् / अत एवैतावतालंकारसारकारादिभिरेतदलंकारद्वयमपास्तम् / न च तद्युक्तम् , लक्षणदोषाभावात् / उदाहरणान्तरेष्वस्य प्रतिष्ठानात् / तत्तु यथा-'भिक्षो कन्था श्लथा किं ननु शफरवधे जालिकैषात्सि मत्स्यान्मध्ये मद्याक्दंशं पिबसि मधु समं वेश्यया यासि वेश्याम् / हत्वारीन्किं करिष्ये कति तव रिपवः संधिमेत्तास्मि येषां चोरस्त्वं द्यूतहेतोः कथमसि कितवो येन भिक्षुनमस्ते // ' अत्र हि शफरबन्धजालिकैषेत्युत्तरान्मत्स्यादनरूपस्य प्रश्नस्योन्नयनम् / एवमन्यदपि ज्ञेयम् / 'येन दासीसुतोऽस्मि' इति पुनः पाठो ग्राह्यः। दासीसुतत्वे कितवस्य निमित्तत्वाभावात् / प्रश्नोत्तरोनयनस्यासमाप्तेः साकाङ्क्षत्वाद्वाक्यार्थस्यानि