________________ अलंकारसर्वस्वम् / 215 'धवलो सिजह वि सुन्दर तह वितुए मज्झ रंजिअं हिअअं। . राअभरिए वि हिअए सुहअ णिहित्तो ण रत्तो सि / ' 'गाङ्गमम्बु सितमम्बु यामुनं कज्जलाभमुभयत्र मज्जतः। राजहंस तव सैव शुभ्रता चीयते न च न चापचीयते // पूर्वत्रातिरक्तहृदयसंपर्कान्नायकस्य धवलशब्दवाच्यस्य प्राप्तमपि रक्तत्वं न निष्पन्नमित्यतद्गुणः / उत्तरत्राप्रकृतस्य गाङ्गयामुनजलस्य संपर्केऽपि न तथा रूपत्वमित्ययमप्यतद्गुण एव / कार्यकारणभावस्य चात्राविवक्षणान्न विषमालंकारावकाशः / अयमपीति / समानगुणत्वेनापीत्यर्थः / धवलोसीति / तत्तद्गुण एवेति ग्रन्यैकदेशस्तु क्वचिल्लेखकैः कल्पित इत्युपेक्ष्य एव / पुस्तकान्तरेष्वस्यादृष्टेः / न च गाथाव्याख्यानं प्रस्तुतं येनात्रालंकारान्तरस्यापि व्याख्यानं स्यात् / नाप्यत्र तद्गुणः / तस्य हि स्वगुणत्यागेनाप्यन्यगुणस्वीकारो लक्षणम् / न चात्र स्वगुणत्यागो नाप्यन्यगुणस्वीकारः / तस्य धवलत्वव्यभिचारात् / किं त्वत्र कारणाभावेऽपि कार्योत्पादनाद्विभावना, न तु विरूपकार्योत्पत्त्या विषमालंकारः। तत्र हिं कार्यकारणयोर्विरूपत्वेऽप्यबाध्यमानतया प्रतीतिः / इह त्वेकस्य बाध्यमानतयेति महाननयोर्भेदः / नन्वत्र सत्यपि कारणसामय्येऽन्यगुणानुदाहरणरूपस्य कार्यस्थानुत्पत्तेः किमयं विशेषोक्तिरेव न भवतीत्याशक्याह-कार्येत्यादि / अविवक्षणादिति / वस्तुतस्तु संभवत्येव कार्यकारणभावः / अत एवालंकारसारकृता विशेषोक्त्यन्तर्भाव एवोक्तः / ग्रन्थकृता तु प्राच्यानुरोधाल्लक्षितः / 'विषमालंकार-' इति पाठस्तु पुस्तकान्तरेषु स्थितोऽप्यत्रायुक्तः / न हि कार्यकारणभावविवक्षामात्रेणात्र तत्त्वं स्यायेन तन्निषेधेन तस्यानवकाशः / तस्य हि विरूपस्य 1. 'धवलोऽसि यद्यपि सुन्दर तथापि त्वया मम रञ्जितं हृदयम् / रागभरितेऽपि हृदये सुभग निहितो न रक्तोऽसि // ' इति च्छाया.