________________ अलंकारसर्वस्वम् / 219 अत्र रोमाञ्चादिनोद्भिन्नो रतिभावः शैत्यप्रक्षेपणेनापलपितः / यद्यप्यपहृतोऽपि सस्मितत्वख्यापनेन पुनरप्युद्भिन्नत्वेन प्रकाशितः, तथा. प्यपलापमात्रचिन्तयास्यालंकारस्योल्लेखः / नन्वपद्भुतिग्रन्थे 'यथा साहश्याय योऽपह्नवः सापह्नुतिः, तथापह्नवायापि यत्सादृश्यं साप्यपद्भुतिः' इति स्थापितम् / व्याजोक्तौ चोत्तरः प्रकारो विद्यते तत्कथमियमलंकारान्तरेण कथ्यते / सत्यम् / उद्भटसिद्धान्ताश्रयेणोत्रत्रोक्तम् / न हि तन्मते व्याजोक्त्याख्यमलंकरणमस्ति / इह तु तस्य संभवाद्वयतिरिक्तापह्नुतिरिति पृथगयमलंकारो निर्दिष्टः / अन्यथोक्तस्य वाक्यस्य काकुश्लेषाभ्यामन्यथा योजनं वक्रोक्तिः। उक्तिव्यपदेशसाम्याव्याजोक्त्यनन्तरमस्या लक्षणम् / यद्वाक्यं केन निमित्तान्तरकथनेनेत्यर्थः / रतिभाव इति / स्थायी / अपहृतोऽपीति / व्याजोक्तेः प्ररोहात् / अपलापमात्रचिन्तयेति / तावन्मात्रस्यैव तल्लक्षणत्वात् / अस्याश्चापहृतेर्भेदं दर्शयितुमुपक्रमते-नन्वित्यादिना / स्थापित मिति / श्लेषग्रन्थे यदुक्तम् / 'सादृश्यव्यक्तये यत्रापह्नवोऽसावपळुतिः' इति / एवमपह्नवग्रन्थ इति पूर्ववाक्य एव संबन्धनीयम् / उत्तरः प्रकार इति / अपह्नवाय सादृश्यं तदिति / उत्तरेणैव प्रकारेण व्याप्तत्वात् / कथमिति / निष्प्रयोजकत्वात् / एतदेवाभ्युपगम्य प्रतिविधत्ते-सत्यमित्यादिना / तदित्यपह्नवाय सादृश्यम् / तत्रेति / श्लेषे / तन्मत इति / उद्भटमते / तस्येति / व्याजोक्त्याख्यस्यालंकारस्य / तद्व्यतिरिक्तेति / अपहृतौ हि प्रकृतमेवोत्कर्षयितुमप्रकृतस्योपादानम् / इह तूद्भिन्नं सत्प्रकृतं वस्तु वस्त्वन्तरेणाप्रकृतेन निगृह्यते इत्यनयोर्महान्भेदः / एवं 'आकृष्यादौ' इत्यादौ च लोकात्मवस्त्वन्तरप्रक्षेपेणोद्भिन्नप्रियनिगूहनस्यैव वाक्यार्थत्वाट्याजोक्तिरेव न पुनरपह्नुतिः / अत एव च नात्र वक्रोक्तिः / तस्य हि यथायोजनमात्रं लक्षणम् // अन्यथेत्यादि / एतदेव व्याचष्टे-यद्वाक्यमिति / अन्याभिप्रायेणेति / विवक्षितार्थपर 1. 'तत्तत्रोक्तम्' ख.